अञ्चेः पूजायाम्

7-2-53 अञ्चेः पूजायाम् आर्धधातुकस्य इट् वलादेः क्त्वानिष्ठयोः

Kashika

Up

index: 7.2.53 sutra: अञ्चेः पूजायाम्


अञ्चेः पूजायामर्थे क्त्वानिष्ठयोः इडागमो भवति। अञ्चित्वा जानु जुहोति। अञ्चिता अस्य गुरवः। उदितो वा 7.2.56 इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायाम् यस्य विभाषा 7.2.15 इति प्रतिषेधः प्राप्तः, तदर्थम् इदं प्रारब्धम्। पूजायाम् इति किम्? उदक्तमुदकं कूपात्। उद्धृतम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 7.2.53 sutra: अञ्चेः पूजायाम्


पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥

Balamanorama

Up

index: 7.2.53 sutra: अञ्चेः पूजायाम्


अञ्चेः पूजायाम् - अञ्चेः पूजायाम् ।उदितो वे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । अञ्चित इति ।नाऽञ्चेः पूजाया॑मिति नलोपनिषेधः ।

Padamanjari

Up

index: 7.2.53 sutra: अञ्चेः पूजायाम्


अञ्चिता अस्येति । मतिबुद्धि इत्यादिना वर्तमाने क्तः, नाञ्चेः पूजायाम् इत्युपधालोपप्रतिषेधः, क्तस्य च वर्तमाने इति कर्तरि षष्ठी ॥