वसतिक्षुधोरिट्

7-2-52 वसतिक्षुधोः इट् आर्धधातुकस्य इट् वलादेः क्त्वानिष्ठयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वसतेः क्षुधेश्च क्त्वानिष्ठयोरिडागमो भवति। उषित्वा। उषितः उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसतीति विकरणो निर्देशार्थ एव। वस्तेस्तूदात्तत्वादेव भवितव्यमिटा। पुनरिड्ग्रहणं नित्यार्थम्॥

Siddhanta Kaumudi

Up

आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वसतिक्षुधोरिट्>> - वसतिक्षुधोरिट् । पञ्चम्यर्थे षष्टी । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वानिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । इडित्यनुवर्तमाने पुनरिड्ग्रहणस्यस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । 'एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात्संप्रसारणम्,शासिवसिघसीनां चे॑ति षः ।

Padamanjari

Up

उषित्वेति । पूर्ववत्कित्वम्, यजादित्वात्सम्प्रसारणम्, शासिवसि इत्यादिना षत्वम् । वस्तेस्त्विति । वस आच्छादने इत्यस्य यङ्लुग्निवृत्यर्थोऽपि शपा निर्द्देशो न भवति, तत्रापि क्त्वानिष्ठयोः सामान्यलक्षणेन इड् भवत्येव - वावसितः , वावसितवान्, वावसित्वा । गणाश्रयत्वात्सम्प्रसारकणाभावः ॥