पूङश्च

7-2-51 पूङः च आर्धधातुकस्य इट् वलादेः वा क्त्वानिष्ठयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूङश्च क्त्वानिष्ठयोर्वेडागमो भवति। पूत्वा, पवित्वा। सोमोऽतिपूतः, सोमोऽतिपवतिः। पूतवान्, पवितवान्। <<श्र्युकः किति>> ७.२.११ इति प्रतिषेधे प्राप्ते विकल्पो विधीयते॥

Siddhanta Kaumudi

Up

पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पूङश्च>> - पूङश्च । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वनिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । इड्वेति ।स्वरतिसूती॑त्यतो वाग्रहणस्य ,इण्निष्ठाया॑मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः । 'श्र्युकः' इति निषेधे प्राप्ते विकल्पोऽयम् ।

Padamanjari

Up