क्लिशः क्त्वानिष्ठयोः

7-2-50 क्लिशः क्त्वानिष्ठयोः आर्धधातुकस्य इट् वलादेः वा

Kashika

Up

index: 7.2.50 sutra: क्लिशः क्त्वानिष्ठयोः


क्लिशः क्त्वानिष्ठ्योः वा इडागमो भवति। क्लिष्ट्वा, क्लिशित्वा। क्लिष्टः, क्लिशितः। क्लिष्टवान्, क्लिशितवान्। क्लिशू विबाधने इत्यस्य क्त्वायां विकल्पः सिद्ध एव निष्ठायां तु यस्य विभाषा 7.2.15 इति प्रतिषेधः प्राप्नोति। क्लिश उपतापे इत्येतस्य तु क्त्वायां निष्ठायां च नित्यम् इडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते।

Siddhanta Kaumudi

Up

index: 7.2.50 sutra: क्लिशः क्त्वानिष्ठयोः


इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥

Balamanorama

Up

index: 7.2.50 sutra: क्लिशः क्त्वानिष्ठयोः


क्लिशः क्त्वानिष्ठयोः - क्लिशः क्त्वानिष्ठयोः ।इड्वा स्या॑दिति शेषः ।स्वरति सूती॑त्यतो वेत्यनुवृत्तेरिति भावः । नित्यं प्राप्त इति ।आर्धधातुकस्येड्वलादे॑रित्यनेनेति भावः । विकल्पे सिद्ध इति । ऊदित्त्वादिति भावः । निष्ठायां निषेधे प्राप्ते इति ।यस्य विभाषे॑त्यनेनेति भावः ।

Padamanjari

Up

index: 7.2.50 sutra: क्लिशः क्त्वानिष्ठयोः


क्लिशित्वेति । मृडमृद इत्यादिना कित्वम् । विकल्पः सिद्ध एवेति । उदत्वात्स्वरत्यादिसूत्रेण । किमर्थं तर्हि क्त्वाग्रहणम् इत्यत आह - क्लिश उपताप तैत्यस्येति ॥