सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्

7-2-49 सनि इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् आर्धधातुकस्य इट् वलादेः वा

Kashika

Up

index: 7.2.49 sutra: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्


इवन्तानां धातूनाम्, ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सनित्येतेषां च सनि वा इडागमो भवति। इवन्तानाम् दिदेविषति, दुद्यूषति। सिसेविषति, सुस्यूषति। ऋधु अर्दिधिषति, ईर्त्सति। भ्रस्ज बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति। दम्भु दिदम्भिषति, धिप्सति, धीप्सति। श्रि उच्छिश्रयिषति, उच्छिश्रीषति। स्वृ सिस्वरिषति, सुस्वूर्षति। यु यियविषति, युयूषति। ऊर्णु प्रोर्णुनविषति, प्रोर्णुनविषति, प्रोर्णुनूषति। भर इति भृञित्येतस्य भौवादिकस्य ग्रहणम्, शपा निर्देशात्। विभरिषति, बुभूर्षति। ज्ञपि जिज्ञपयिषति, ज्ञीप्सटि। सन् सिसनिषति, सिषासति। केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति। तनि तितनिषति, तितंसति, तितांसति। पति पिपतिषति, पित्सति। दरिद्रा दिदरिद्रिषति, दिदरिद्रासति। सनि इति किम्? देविता। भ्रष्टा।

Siddhanta Kaumudi

Up

index: 7.2.49 sutra: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्


इवान्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताच्च <{SK2613}> इति कित्वम् । छ्वोः - <{SK2561}> इति वस्य ऊठ् । यण् द्वित्वम् । दुद्यूषति । दिदेविषति । स्तौतिण्योरेव - <{SK2627}> इति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥

Balamanorama

Up

index: 7.2.49 sutra: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्


सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् - सनीवन्तर्ध । सनि इवन्तेति च्छेतः । इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्वृ, यु, ऊर्णु, भर , ज्ञपि , सन्, — एषां द्वन्द्वः । इव् अन्ते येषां ते इवन्ताः ।स्वरती॑त्यतो वेति,इण्निष्ठाया॑मित्यत इडिति चानुवर्तते । तदाह — इवन्तेब्य इत्यादि । वन्तस्य दिव्धातोरुदाहरिष्यन्नाह — इडभावे इति । वस्येति । वकारस्येत्यर्थः । यणिति ।कारादिकारस्ये॑ति शेषः । द्वित्वमिति ।द्यु इत्यस्ये॑ति शेषः । दुद्यूषतीति ।अज्झने॑ति दीर्घः । इट्पक्षे आह — दिदेविषतीति । अझलादित्वान्न सनः कित्त्वम्, अतो नोठ्, किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्क्य आह — स्तौतिण्योरिति । सुस्युषतीति । सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम् । इट्पक्षे आह — सिसेविषतीति । ऋध्धातोः सनि ईत्र्सतीति रूपं वक्ष्यन्नाह —

Padamanjari

Up

index: 7.2.49 sutra: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्


भ्रस्जेरेकाचेति । श्रयतेरुगन्तानां च सनि ग्रहगुहोश्चेति प्रतिषेधः प्राप्तः इतरेषां तु नित्यमिट् प्राप्तः, तक्षेदमारभ्यते अर्दिधिषतीति । लघूपधलक्षणे गुणे अजादेर्द्वितीयस्य इति धिस् इत्यस्य द्विर्वजनम्, रेफस्य तु न न्द्राः इति प्रतिषेधः । ईर्त्सतीति । आप्ज्ञप्यृधामीत् तैति ऋकारस्य रपर ईकारः, धकारेण सशब्दस्य द्विर्वचनम्, अत्र लोपोऽभ्यासस्य । बिभ्रज्जिषतीति । भ्रस्चो रोपधयो रमन्यतरस्याम् । विभ्रक्षतीति । व्रश्चादिना षत्वम्, षढोः कः सि । धिप्सतीति । दम्भ इच्च इतीत्वमित्वं च, हलन्ताच्चेति कित्वे नलोपः, पूर्ववदभ्यासलोपः । यियविषतीति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् । भृञ् इत्येतस्येति । दीर्घान्तोऽयम् । थथा च भरः इत्यब् भवति । सिसनिषतीति । स्तौतिण्योरेव इति नियमादत्र षत्वाभावः । सिषासतीति । षत्वभूते सनि नियमादत्र षत्वम् । केचिदत्रेति । ये त्वेतन्न पठन्ति ते उपसंख्यानमारभन्त । तितांसतीति । तनोतेविंभाषां इति पक्षे दीर्घत्वम् । पित्सतीति । सनि मीमाधु इत्यादिना अच इस्, स्कोः संयोगाद्योः इति सलोपः पूर्ववदभ्यासलोपः । दिदरिद्रा सतीत्येके दिदरिद्रषतीति चेति । इट् पक्षे दरिद्रातेराकारलोपः ॥