7-2-48 ति इषसहलुभरुषरिषः आर्धधातुकस्य इट् वलादेः वा
तकारादावार्धधातुक इषु सह लुभ रुष रिष इत्येतेभ्यो वेडागमो भवति। इषु — एष्टा, एषिता। <<इषु इच्छयाम्>> इत्यस्यायं विकल्प इष्यते। यस्तु <<इष गतौ>> इति दैवादिकस्तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यमिति नित्यं भवति। योऽपि <<इष आभीक्ष्ण्ये>> इति क्र्यादौ पठ्यते, तस्याप्येवमेव। तदर्थमेव तीषसहेति सूत्रे केचिदुदितमिषं पठन्ति। सह — सोढा, सहिता। लुभ — लोब्धा, लोभिता। रुष — रोष्टा, रोषिता। रिष् — रेष्टा, रेषिता। तीति किम्? एषिष्यति॥
इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ।{$ {!695 भष!} भर्त्सने$} । इक्ष भर्त्सनं श्वरवः । भषति । बभाष ।{$ {!696 उष!} दाहे $}। ओषति ॥
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात्। लोभिता, लोब्धा। लोभिष्यति॥ {$ {! 20-21 तृप, तृम्फ !} तृप्तौ $} (धातुपाठे <{06.0028}>, <{06.0031}>) ॥ तृपति। ततर्प। तर्पिता। अतर्पीत्। तृम्फति। <<शे तृम्फादीनां नुम् वाच्यः>> (वार्त्तिकम्) । आदिशब्दः प्रकारे, तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः। ततृम्फ। तृफ्यात्॥ {$ {! 22-23 मृड, पृड !} सुखने $} (धातुपाठे <{06.0053}>, <{06.0054}>) ॥ मृडति। पृडति। ॥ {$ {! 24 शुन !} गतौ $} (धातुपाठे <{06.0062}>) ॥ शुनति॥ {$ {! 25 इषु !} इच्छायाम् $} (धातुपाठे <{06.0078}>) ॥ इच्छति। एषिता, एष्टा। एषिष्यति। इष्यात्। ऐषीत्॥ {$ {! 26 कुट !} कौटिल्ये $} (<{06.0093}>) ॥ गाङ्कुटादीति ङित्त्वम्॥ चुकुटिथ। चुकोट, चुकुट। कुटिता॥ {$ {! 27 पुट !} संश्लेषणे $} (धातुपाठे <{06.0094}>) ॥ पुटति। पुटिता। ॥ {$ {! 28 स्फुट !} विकसने $} (धातुपाठे <{06.0100}>) ॥ स्फुटति। स्फुटिता॥ {$ {! 29-30 स्फुर, स्फुल !} संचलने $} (धातुपाठे <{06.0121}>, <{06.0122}>) ॥ स्फुरति। स्फुलति॥
<<तीषसहलुभरुषरिषः>> - सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् । तदाह -इच्छत्यादेरिति । इच्छतीति इषेः श्तिपा निर्देशः । इषधातुर्विवक्षितः । 'इषु इच्छायां' तुदादिः शविकरणः । 'इष गतौ' दिवादिः श्यन्विकरणः । 'इष आभीक्ष्ण्ये' क्र्यादिः श्नाविकरणः । तत्रइषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः॑ इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता रोष्टेति । इडभावे ष्टत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पं मत्वा आह — रेषिता रेष्टेति । उष दाह इति । सेट्कोऽयम् । उखधातुवत् रूपाणि ।