7-2-42 लिङ्सिचोः आत्मनेपदेषु आर्धधातुकस्य इट् वलादेः वॄतह् वा
index: 7.2.42 sutra: लिङ्सिचोरात्मनेपदेषु
वृ̄तो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति। वृषीष्ट, वरिषीष्ट। प्रवृषीष्ट, प्रावरिषीष्ट। आस्तरिषीष्ट, आस्तीर्षीष्ट। सिचि खल्वपि अवृत, अवरिष्ट, अवरीष्ट। प्रावृत, प्रावरिष्ट, प्रावरीष्ट। आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट। आत्मनेपदेषु इति किम्? प्रावारिष्टाम्। प्रावारिषुः। लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात् यासुटोऽवलादित्वातिति।
index: 7.2.42 sutra: लिङ्सिचोरात्मनेपदेषु
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि ॥
index: 7.2.42 sutra: लिङ्सिचोरात्मनेपदेषु
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥
index: 7.2.42 sutra: लिङ्सिचोरात्मनेपदेषु
लिङ्सिचोरात्मनेपदेषु - ॒इट् सनि वा॑ इत्यत इड्वेत्यनुवर्तते ।वृतो वे॑त्यतो 'वृत' इति । तदाह — वृङ्वृञ्भ्यामित्यादिना ।
index: 7.2.42 sutra: लिङ्सिचोरात्मनेपदेषु
आत्मनेपदे परे इति । सिच एवैतद्विशेषणम्, न लिङ्ः, असम्भवात् । न चैवं तस्य परस्मैपदेऽपि प्रसङ्गः वलादेः इत्यधिकारात् । प्रावृषीष्टेत्यादौ उश्चेति कित्वम् ॥