7-2-41 इट् सनि वा आर्धधातुकस्य इट् वलादेः वॄतह्
वृतः सनो वेडागमो भवति। वुवूर्षते, विवरिषते, विवरीषते। प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति। ॠकारान्तेभ्यः — तितीर्षति, तितरिषति, तितरीषति। आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते। <<सनि ग्रहगुहोश्च>> ७.२.१२ इतीट्प्रतिषेधे प्राप्ते पक्ष इडागमो विधीयते। इटश्च <<वृतो वा>> ७.२.३८ इति पक्षे दीर्घः। चिकीर्षति, जिहीर्षति इत्यत्रोपदेशाधिकाराद् लाक्षणिकत्वात् चेडागमो न भवति॥
वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥
<<इट् सनि वा>> - इट् सनि वा ।वतो वे॑त्यतो 'वृत' इत्यनुवर्तते इति मत्वाह — वृङ्वृञ्भ्यामित्यादि ।सनि ग्रहगुहोश्चे॑त्यस्यापवादः । चिकीर्षतीत्यादौअज्झने॑ति दीर्घ कृते सनि नेदं प्रवर्तते, 'एकाच उपदेशे' इत्यत उपदेशे इत्यनुवर्त्त्य उपदेशे ऋकारान्तादिति व्याख्यानात् । तितरिषति — तितरीषतीति । तृधातोः सनि लटिवृतो वे॑ति दीर्घः । इडभावे त्वाह- तितीर्षतीति ।इको झ॑लिति कित्त्वाद्गुणाऽभावेतृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वेहलि चे॑ति दीर्घ इति भावः । विवरिषतीति । वृञ्धातोः सनि इटिवृतो वे॑ति दीर्गविकल्पः । इडभावे त्वाह — वुवूर्पतीति । उदोष्ठए॑त्युत्वे रपरत्वेहलि चे॑ति दीर्घः । वुवूर्षते इति । ङित्त्वादात्मनेपदेम् । दुर्ध्वूर्षतीति ।द्वृ कौटिल्ये॒॑अज्झने॑ति दीर्घः ।उदोष्ठए त्युत्वे,हलि चे॑ति दीर्घ इति भावः ।
अत्रातिस्तीर्षतीति परस्मैदपाठो न युक्तः ॥