7-2-39 न लिङि आर्धधातुकस्य इट् वलादेः दीर्घः वॄतह्
index: 7.2.39 sutra: न लिङि
वृतः उत्तरस्य इटो लिङि दीर्घो न भवति। विवरिषीष्ट। प्रावरिषीष्ट। आस्तरिषीष्ट। विस्तरिषीष्ट।
index: 7.2.39 sutra: न लिङि
वॄतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट । वृषीष्ट । अवारीत् । अवरिष्ट । अवरीष्ट । अवृत ।{$ {!1255 धुञ्!} कम्पने$} । धुनोति । धुनुते । अधौषीत् । अधोष्यत् । दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । स्वरतिसूति - <{SK2279}> इति वेट् । दुधविथ । दुधोथ । किति लिटि तु श्र्युकः - <{SK2389}> इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् । दुधुविव । स्तुसुधूञ्भ्यः - <{SK2385}> इति नित्यमिट् । अधावीत् । अधविष्ट । अधोष्ट ॥ अथ परस्मैपदिनः ॥{$ {!1256 टुदु!} उपतापे$} । दुनोति ।{$ {!1257 हि!} गतौ वृद्धौ च$} ॥
index: 7.2.39 sutra: न लिङि
वॄत इटो लिङि न दीर्घः। स्तरिषीष्ट। उश्चेति कित्त्वम्। स्तीर्षीष्ट। सिचि च परस्मैपदेषु। अस्तारीत्। अस्तारिष्टाम्। अस्तारिषुः। अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट॥ {$ {! 14 कॄञ् !} हिंसायाम् $} ॥ कृणाति, कृणीते। चकार, चकरे॥ {$ {! 15 वॄञ् !} वरणे $} ॥ वृणाति, वृणीते। ववार, ववरे। वरिता, वरीता। उदोष्ठ्येत्युत्त्वम्। वूर्यात्। वरिषीष्ट, वूर्षीष्ट। अवारीत्। अवारिष्टाम्। अवरिष्ट, अवरीष्ट, अवूर्ष्ट॥ {$ {! 16 धूञ् !} कम्पने $} ॥ धुनाति, धुनीते। धविता, धोता। अधावीत्। अधविष्ट, अधोष्ट॥ {$ {! 17 ग्रह !} उपादाने $} ॥ गृह्णाति, गृह्णीते। जग्राह, जगृहे॥
index: 7.2.39 sutra: न लिङि
न लिङि - न लिङि ।वृतो वेत्यतो 'वृत' इत्यनुवर्तते । लिङीति षष्ठर्थे सप्तमी ।आर्धधातुकस्ये॑डित्यत इडित्यनुवृतं षष्ठआ विपरिणम्यते ।ग्रहोऽलिटी॑त्यतो दीर्घ इत्यनुवर्तते । तदाह - वृत इति । वृङ्वृञ्भ्यामृकारान्ताच्चेत्यर्थः । विरषीष्टेति । इट्पक्षेवृतो वे॑ति प्राप्तो दीर्घो न भवति । वृषीष्टेति । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः । अवारीदिति । लुङि परस्मैपदे सिचि वृद्धिः । अवारिष्टामवारिषुः ।सिचि च परस्मैपदेषु॑ इति निषेधादिहवृतो वे॑ति न दीर्घः । लुङस्तङि सिचिलिङ्सिचो॑रिति इट्पक्षेवृतो वे॑ति दीर्घविकल्पं मत्वा आह - अवरिष्ट अवरीष्टेति । अवृतेति । इडभावपक्षेह्रस्वादङ्गा॑दिति सिचो लोपः । धुञ् कम्पन इति । ह्रस्वान्तोऽयमनिट् । षुञ इव रूपाणि । दीर्गान्तोऽप्ययमित्यादि । व्यक्तम् । अथ परस्मपैदिन इति ।राध साध संसिद्धा॑वित्येतत्पर्यन्ता इत्यर्थ । 'टु दु उपतापे' इत्यारभ्य 'स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्रस्वान्ताः । हि गताविति ।प्रहिणोती॑त्यत्र भिन्नपदत्वाण्ण्तवेऽप्राप्ते आह —
index: 7.2.39 sutra: न लिङि
विस्तरिषीष्टेति । कर्मण्यात्मनेपदम् ॥