वॄतो वा

7-2-38 वॄतह् वा आर्धधातुकस्य इट् वलादेः अलिटि दीर्घः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्, तस्मादुत्तरस्य ॠकारान्तेभ्यश्चेटो वा दीर्घो भवति। वरिता, वरीता। प्रावरिता, प्रावरीता। ॠकारान्तेभ्यः — तरिता, तरीता। आस्तरिता, आस्तरीता। वृृत इति किम्? करिष्यति। हरिष्यति। अलिटीत्येव — ववरिथ। तेरिथ॥

Siddhanta Kaumudi

Up

वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च <{SK354}> इति दीर्घः । तीर्यात् ॥

Laghu Siddhanta Kaumudi

Up

वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । परीता, परिता । परीष्यति, परिष्यति । पिपर्तु । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वॄतो वा>> - वृतो वा । वृ ॠत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोग्र्रहणम् ।आर्धधातुकस्ये॑डित्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।ग्रहोऽलिटि दीर्घ इत्यनुवर्तते । तदाह — वृङ्वृञ्भ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः ।गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे 'हलि चे' ति दीर्घे, तीर्यादिति रूपमित्यर्थः । अतारीत् अतारिष्टामित्यादौ 'वृतो वा' इति दीर्घे प्राप्ते — सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्वृञ्भ्यामृद्नताच्च परस्य इटो दीर्घो नेत्यर्थः ।न लिङी॑त्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषमतारिष्व अतारिष्म.अतरिष्यत् । गुप गोपने इति । गोपनं — रक्षणम् । तिज निशाने इति । निशानं — तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धने इति । एते चत्वारोऽनुदात्तेत इति स्थितिः ।

Padamanjari

Up

अत्र यदि वृ वरणे इत्येतस्य तसिला निर्द्देशः स्यात् व्रः इत्येव निर्दिश्येत, यथा ग्रो यङ् ईति । अथ तस्य ऋकारान्तानां च ग्रहणम् एवमपि तस्य पृथग्ग्रहणमनर्थकम्, ऋकारान्तत्वात् । अथ तस्य ऋकारान्तानां एच तथा च सति ऋतश्च संयोगादेः इत्यत्र ऋतः इति न वक्तव्यमस्यैवानुवृतेः । अथ वृङ्वृञोः ऋकारान्तानां च तथापि वृग्रहणमनर्थकमृकारान्तत्वात् । तस्माद्वृत्तिकारोपदर्शितानामेव ग्रहणम् । वृत इति किमिति । उः इति वक्तव्यमिति मन्यते ॥