7-2-37 ग्रहः अलिटि दीर्घः आर्धधातुकस्य इट् वलादेः
ग्रह उत्तरस्येटोऽलिटि दीर्घो भवति। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्। अलिटीति किम्? जगृहिव, जगृहिम। प्रकृतस्येटो दीर्घत्वमिदं चिण्वदिटो न भवति। ग्राहिता। ग्राहिष्यते॥
एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्त - <{SK2299}> इति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥
एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । हलः श्नः शनञ्झविति श्नः शनजादेशः । गृहाणा । गृह्यात्, ग्रहीषीष्ट । ह्म्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् ॥ {$ {! 17 कुष !} निष्कर्षे $} (धातुपाठे <{09.0054}>) ॥ कुष्णाति । कोषिता । {$ {! 18 अश !} भोजने $} (धातुपाठे <{09.0059}>) ॥ अश्नाति । आश । अशिता । अशिष्यति । अश्नातु । अशान ॥ {$ {! 19 मुष !} स्तेये $} (धातुपाठे <{09.0066}>) ॥ मोषिता । मुषाण ॥ {$ {! 20 ज्ञा !} अवबोधने $} (धातुपाठे <{09.0043}>) ॥ जज्ञौ ॥ {$ {! 21 वृङ् !} सम्भक्तौ $} (धातुपाठे <{09.0045}>) ॥ वृणीते । ववृषे । ववृढ्वे । वरिता, वरीता । अवरीष्ट, अवरिष्ट, अवृत ॥ इति क्र्यादयः ॥ ९ ॥
<<ग्रहोऽलिटि दीर्घः>> - ग्रहोऽलिटि दीर्घः ।ग्रहट इति दिग्योगे पञ्चमी । 'आर्धधातुकस्येट्' इत्यत इडित्यनुवृत्तं षष्ठन्तं विपरिणम्यते,एकाच उपदेशेऽनुदात्ता॑ दित्यत एकाचेति च । तदाह — एकाच इत्यादि । एकाचः किम । यङ्लुकि माभूत् । जाग्रहिता । विहितस्येति किम् । ग्रहितम् । णिलोपे कृते ग्रहधातोः परत्वेऽपि विहतत्वाऽभावादिटो न दीर्घः । न च णिलोपस्य स्थानिवत्त्वान्न ग्रहधातोः पर इडिति वाच्यं, दीर्घकित्त्वात्संप्रसारणमिति भावः । लिङस्तङ्याह — ग्रहीषीष्टेति । 'ग्रहोऽलिटी' ति दीर्घः ।न लिङी॑ति इटो दीर्घनिषेधस्तु न, तत्रवृतट इत्यनुवृत्तेः । अग्रहीष्टामिति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषुः । अग्रहीरित्यादि । लुङस्तङ्याह — अग्रहीष्टेति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषतेति । अग्रहीष्ठा इत्यादि सुगमम् । इति क्र्यादयः ।॥ इति बालमनोरमायाम् क्र्यादयः॥अथ तिङन्ते लकारार्थप्रक्रिया ।अथ लकारार्थप्रक्रिया निरूप्यते ।