7-2-31 ह्रु ह्वरेः छन्दसि न इट् वशि निष्ठायाम्
ह्वरतेर्धातोर्निष्ठायां छन्दसि ह्रु इत्ययमादेशो भवति। ह्रुतस्य चाह्रुतस्य च। अह्रु॑तमसि हवि॒र्धान॑म् (मा०सं० १.९)। छन्दसीति किम्? ह्वृतम्॥
ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ॥
ह्वरेरिति । ह्वृ कौटिल्ये । आगन्तुकेकारे गुणेन निर्द्देशः ॥