7-2-30 अपचितः च न इट् वशि निष्ठायाम्
अपचित इति वा निपात्यते। अपपूर्वस्य चायतेर्निष्ठायामनिट्त्वं चिभावश्च निपात्यते। अपचितोऽनेन गुरुः, अपचायितोऽनेन गुरुः॥ क्तिनि नित्यमिति वक्तव्यम्॥ क्तिनि नित्यं चिभावो निपात्यते। अपचितिः॥
चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥
<<अपचितश्च>> - अपचितश्च ।अपपूर्वस्य चिञो ण्यन्तस्य निष्ठायां चिभावो निपात्यते॑ इति भाष्यं । तदाह — चायेर्निपातोऽयमिति ।
अपचितोऽनेन गुरुरिति । चायृ पूजानिशामनोयोः । निशामने चायं प्रयोगः । पूजायां तु मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्ते सति क्तस्य च वर्तमाने इति षष्ठ।ल भवितव्यम् । क्तिनि नित्यमिति । क्तिन्नाबादिभ्यः इति क्तिन् । अन्यथा गुरोश्च हलः इत्याकारः स्यात् ॥