हृषेर्लोमसु

7-2-29 हषेः लोमसु न इट् वशि निष्ठायाम् वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लोमसु वर्तमानस्य हृषेर्निष्ठायां वेडागमो न भवति। हृष्टानि लोमानि, हृषितानि लोमानि। हृष्टं लोमभिः, हृषितं लोमभिः। हृष्टाः केशाः, हृषिताः केशाः। हृष्टं केशैः, हृषितं केशैः। <<हृषु अलीके>> इत्युदित्त्वाद् निष्ठायामनिट्। <<हृष तुष्टौ>> इत्ययं सेट्। तयोरुभयोरिह ग्रहणमित्युभयत्रविभाषेयम्। लोमानि मूर्द्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा <<लोमनखं स्पृष्ट्वा शौचं कर्तव्यम्>> (महाभाष्य १.२५) इति। तद्विषये च हृषिर्वर्तमानो लोमसु वर्तत इत्युच्यते। लोमस्विति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्त इति तुष्ट्यर्थस्य॥ विस्मितप्रतिघातयोश्चेति वक्तव्यम्॥ हृष्टो देवदत्तः, हृषितो देवदत्तः। विस्मित इत्यर्थः। हृष्टा दन्ताः, हृषिता दन्ताः। प्रतिहता इत्यर्थः॥

Siddhanta Kaumudi

Up

हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ।<!विस्मितप्रतिघातयोश्च !> (वार्तिकम्) ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<हृषेर्लोमसु>> - ह्मषेर्लोमसु । लोमसु कर्तृष्विति बोध्यम् । इदं चअजर्य॑मिति सूत्रे भाष्ये स्पष्टम् । ह्मष्टं ह्मषितं लोमेति ।गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थः । विस्मितप्रतिघातयोश्चेति । वार्तिकमिदम् ।ह्मषेर्निष्ठाया इड्वे॑ति शेषः । उदित्त्वादिति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेडित्यर्थः । तथा अलीकेऽर्थे ह्मष्ट इत्येव । मृषोक्तवानित्यर्थः । इडिति । 'ह्मष तुष्टौ' इति धातोः क्ते इडेव भवतीत्यर्थः । ह्मषितः । तुष्ट इत्यर्थः । विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः । तत्र लोमसु, विस्मितप्रतिघातयोश्च 'ह्मषु अलीके' इत्यस्मात् ।यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम् । 'ह्मष तुष्टौ' इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः ।

Padamanjari

Up

हृष्टानि - उत्स्फुटानि, मूद्धंजाः - केशाः । अङ्गान्तरजानि लोमानि इति निघण्टुअप्रसिद्धिः । कल्पसूत्रकारणामपि तदनुगुणाः प्रयोगाः - केशश्मश्रुलोमनखं वापयन्तीति, तैह तु केशानामपि ग्रहणम् इत्याह - मूर्द्धजान्यङ्गजानि चेति । अत्र विशेष्यं मृघ्यम् । सामान्येन गृह्यन्त इति । क्व यथा इत्यात्राह - यथेति । ननु क्रियावचनस्य धातोः कथं द्रव्यात्मकेषु लोमसु वृत्तिः इत्यत आह - तद्विषये चेति । प्रतिहताः कठिनद्रव्याखादनेन, शीतपीङ्या वा हता इत्यर्थः ॥