7-2-28 रुष्यमत्वरसङ्घुषास्वनाम् न इट् वशि निष्ठायाम् वा
index: 7.2.28 sutra: रुष्यमत्वरसंघुषास्वनाम्
वा इति वर्तते। रुषि अम त्वर सङ्घुष आस्वन इत्येतेषां निष्ठायां वा इडागमो न भवति। रुष्टः रुषितः। तीषसहलुभरुष. रिषः 4.2.48 इति विकल्पविधानात् यस्य विभाषा 7.2.15 इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। अम अभ्यान्तः, अभ्यमितः। त्वर तूर्णः, त्वरितः। आदितश्च 7.2.16 इति प्रतिषेधे प्राप्ते वचनम्। सङ्घुष सङ्घुष्टौ पादौ, सङ्घुषितौ पादौ। सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाह। सङ्घुष्टौ दम्यौ, सङ्घुषितौ दम्यौ। सम्पूर्वस्य घुषेरविशद्दनेऽपि परत्वादयम् एव विकल्पो भवति। आस्वन आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः। आस्वान्तं मनः, आस्वनितं मनः। आङ्पूर्वस्य स्वनेर्मनोऽभिधानेऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त इति निपातनं बाधते।
index: 7.2.28 sutra: रुष्यमत्वरसंघुषास्वनाम्
एभ्यो निष्ठाया इड्वा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽत्त्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आस्वनितः ॥
index: 7.2.28 sutra: रुष्यमत्वरसंघुषास्वनाम्
रुष्यमत्वरसंघुषास्वनाम् - रुष्यमत्वर । रुषि, अम,त्वर, संघुष् , आस्वन् — एषां द्वन्द्वः । णेरिति निवृत्तम् । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । वा स्यादिति । 'वा दान्ते' त्यतस्तदनुवृत्तेरिति भावः । रुष्टः रुषित इति ।तीषसहे॑ति रुषो वेट्कत्वात्यस्य विभाषे॑ति निषेधे प्राप्ते विकल्पोऽयम् । आन्तः अमित इति । 'अम गत्यादिषु' क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः । तूर्णः त्वरित इति । 'ञि त्वरा संभ्रमे' क्तः, इडभावपक्षेज्वरत्वरे॑त्यूठ् ।रदाभ्या॑मिति नत्वम् । णत्वम् ।आदितश्चे॑ति नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आदित्त्वस्य तु फलमात्मनेपदमात्रं । तदाह — अस्य आदित्वे फलं मन्दमिति । तथा च 'एध वृद्धौ' इत्यादिवद्ध्रस्वानुबन्धत्वमेव न्याय्यमिति भावः । संघुष्टः संघुषित इति । 'घुषिरविशब्दने' इति घुषेः संपूर्वस्य नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आस्वान्तः आस्वनित इति । आङ्पूर्वात् स्वनेः क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः ।क्षुब्धस्वान्ते॑ति निपातनं तु आङ्पूर्वस्य स्वनेर्न भवति, परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः ।न वे॑ति सूत्रभाष्ये तुसङ्घुषाऽऽस्वनोर्विषये उभयत्र विभाषे॑त्युक्तम् ।
index: 7.2.28 sutra: रुष्यमत्वरसंघुषास्वनाम्
अभ्यान्त इति । अम गत्यादिषु, पुर्ववद्दीर्घः । तॄण इति । ञित्वरा सम्भ्रमे, ज्वरत्वर तैत्यादिनोठ । आदितश्चेतीट्प्रतिषेधे प्राप्त इति । आदित्वे तु प्रयोजनं मृग्यम् । आत्मनेपदार्थं तावत्कश्चिदनुबन्ध थाअसञ्जनीयः । कश्चिदाह - आदित्वं यङ्लुगर्थमिति, न हि तत्रायं विकल्पः, एकाचः इत्यनुवृतेः । आदित्करणसामर्थ्याच्चानुबन्धनोऽपि आदितश्च इतीट्पिरतिषेधो यङ्लुकि भवति । सम्पूर्वस् धुषेरिति । घुषिरविशब्दने इत्यस्यासम्पूर्वोऽवकाशः - घुष्टा रज्जुः, अस्य विकल्पस्यावकाशः सम्पूर्वत्वे सति विशब्दने - संघुष्ट्ंअ वाक्यमाह, संपूर्वस्याविशब्दने विप्रतिषेधः । आङ्पूर्वस्येत्यादि । क्षुब्धस्वान्त इति निपातनस्यावकाशोऽनाङ्पूर्वत्वे सति मनोऽभिधाने - स्वान्तं मन इति , अस्य विकल्पस्यावकाशः, - आङ्पूर्वत्वे सत्यमनोऽभिधाने आङ्पूर्वत्वे मनोऽभिधाने च सति विप्रतिषेधः ॥