वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः

7-2-27 वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः न इट् वशि निष्ठायाम् णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णेरित्यनुवर्तते। दम् शम् पूरी दस् स्पश् छद् ज्ञप् इत्येतेषां ण्यन्तानां धातूनां वानिट्त्वं निपात्यते। दान्तः, दमितः। शान्तः, शमितः। पूर्णः, पूरितः। दस्तः, दासितः। स्पष्टः, स्पाशितः। छन्नः, छादितः। ज्ञप्तः, ज्ञपितः। इट्प्रतिषेधो णिलुक् च निपात्यते। ज्ञपेस्तु भरज्ञपिसनाम् ७.२.४९ इति विकल्पविधानाद् <<यस्य विभाषा>> ७.२.१५ इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम्॥

Siddhanta Kaumudi

Up

एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः>> - वा दान्त ।णेरध्ययने वृत्त॑मित्यतो णेरित्यनुवर्तते । 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते ।अनुनासिकस्ये॑ति दीर्घः । णिलोपस्तु न स्थानिवत्, निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः । शान्तः । 'पूरी आप्यायने' ण्यन्तात्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वं, णत्वं । पूर्णः । एतेनन ध्याख्यापृमूर्च्छी॑त्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात्पूर्णरूपार्थत्वात् । 'दसु उपक्षये' ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । 'स्पश बाधने' ण्यन्तात् क्तः, इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । स्पष्टम् ।छद अपवारणे॑ । ण्यन्तात्क्तः । इडभावो वृद्ध्यभावश्च निपात्यते । णिलोपः ।रदाभ्या॑मिति नत्वं, — छन्नः ।ज्ञप मिच्चे॑ति चुरादिण्यन्तात् क्तः । इडभावो णिलोप इति कैयटः । ज्ञप्तः । पक्ष इति । निपातनाऽभावपक्ष इत्यर्थः । दमितः शमित इति । अमन्तत्वेन मित्त्वाद्ध्रस्वः । ज्ञापत इति । अचौरादिकस्य रूपम् । चौरादिकस्य तु ज्ञपित इत्येव ।

Padamanjari

Up

दान्तः, शान्त इति । दमिशमी उपशमनार्थे । णलुगिट्प्रतिषेधयोः अनुनासिकस्य क्विझलोः इति दीर्घः । निपात्यमानस्य च णिलुकोऽपरनिमितकत्वाद्दीर्घविधिं प्रति निषेधाच्च स्थानिवद्भावो नास्ति । पूर्ण इति । पूरी आप्यायने दिवादिः, चुरादिश्च । दस्त इति । तसु उपक्षये दमु च । अत्र ह्रस्वत्वमपि निपात्यते । स्पष्टः च्छन्न इति । स्पशबाधनस्पर्शनयोः, च्छद अपवारणे । अत्रापि ह्रस्वत्वमपि निपात्यते । ज्ञप्त इति । ज्ञप मिच्च, एचुरादिः । इट्प्रतिषेधो णिलुक्च निपात्यत इति । चकारात्क्वचिदुपधाह्रस्वत्वं च । क्वचित्पठ।ल्ते - ज्ञपेभंरज्ञपिसनामिति विकल्पिविधानाद्यस्य विभाषेतीट्प्रतिषेधे प्राप्ते विकल्पार्थे निपातनमिति । एकाज्ग्रहणम् यस्य विभाषा इत्यत्र नानुवर्तत इति भावः । अत्रादितश्चतुर्णां ग्रहणं शक्यमकर्तुम् । कथमन्तर्भवितण्यर्थानां प्रकृत्यन्तानां दान्त इत्यादीनि रुपाणि, अन्यत्र ण्यन्तानां दमित इत्यादीनि ॥