7-2-26 णेः अध्ययने वृत्तम् न इट् वशि निष्ठायाम्
index: 7.2.26 sutra: णेरध्ययने वृत्तम्
ण्यन्तस्य वृत्तेर्निष्ठायामध्ययनार्थे वृत्तम् इति इडभावः णिलुक् च निपात्यते। वृत्तो गुणे देवदत्तेन। वृत्तं पारायणं देवदत्तेन। अध्ययने इति किम्? वर्तितमन्यत्र। वृतिरयमकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति। तेन निर्वृत्तम् इति हि प्रकृटेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिह अपि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदत्तेन इति भविष्यतीति निपातनमनर्थकम्? तत् क्रियते यदापि णिचैव ण्यर्थोऽभिधीयते तदावर्तितम् इत्यध्ययने मा भूतिति केचित्। अपरे तु वर्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति।
index: 7.2.26 sutra: णेरध्ययने वृत्तम्
ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥
index: 7.2.26 sutra: णेरध्ययने वृत्तम्
णेरध्ययने वृत्तम् - णेरध्ययने । णिलुक् चेति । णिलोपे तु लघूपधगुणः स्यादिति भावः । अधीयमान इति । सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः ।
index: 7.2.26 sutra: णेरध्ययने वृत्तम्
अधीयत् इत्यध्ययनमिति कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । निषठाविशेषणं चैतत् - अध्ययनाभिधायिन्यां निष्ठायामिति । णिलुक्वेति । प्रत्ययलक्षणेन गुणो मा भूदिति णेर्लुग्निपातनम्, लोपनिपातने तु गुणः स्यात् । वृतो गुणो देवदेतेनेति । गुणः - पाठः, पदक्रमसंहितारुपोऽध्ययनविशेषः, स वृतः - सम्पादित इत्यर्थः । वृत्तिरयमित्यादिना सूत्रस्यानारम्भमाशङ्कते । अकर्मक इति वृतं गुणसुय, वृतं पारायाणस्यते भावे क्तस्य प्रयोगार्थमिदमुक्तम् । अकर्मकत्वे हि भावे निष्ठा भवति तयोरेव इत्यत्र भावे चाकर्मकेभ्यः इत्यनुवृतेः । योऽपि नपुंसके भावे क्तः, सोऽपि सकर्मकेभ्यो न भवति तयोरेव इत्यत्र क्तमात्रस्य ग्रहणात् । अन्यथा सक्रमकाद्भावे क्ते विधीयमाने कर्मणि द्वितीया प्रज्येत - ग्रामं गतम्, ओदनं भुक्तमिति । यदि तर्ह्यकर्मकः, कथं एवृतो गुण इति कर्मणि निष्ठा इत्याशङ्क्याह - स ण्यर्थे वर्तमाने इति । यदि वा - अयं वृत्तिरकर्मकः स ण्यर्थे वर्तमानः इत्येक एव ग्रन्थः, अकर्मका अपि धातवोऽन्तर्भावितण्यर्थाः प्रयोज्येन कर्मणा सकर्मका भवन्ति, यथा - राजयुध्वेति, दृश्यते च वृतेरन्तर्भावितण्यर्थस्य प्रयोग इत्याह - तेन निर्वृत्तिमिति हीति । न चात्रोपसर्गवशात्सकर्मकत्वम्, ण्यर्थगतेः वृतेणिचि योऽर्थः । निवर्त्यते यैर्नियमाभिषेकः इत्यादौ तदवगतेरित्यर्थः। ततस्मात् । वृतेरेवेति । प्रकृत्यन्तादेवेत्यर्थः । वृतो गुण इति । उदितो वा इति क्त्वायां विकल्पितेट्कत्वाद् यस्य विभाषा इतीट्प्रतिषेधः सिद्धः । तदेवं निपातनमनर्थकमित्येव मतं चोद्यम् । परिहरति - तत्क्रियत इति । इष्टस्यान्यथासिद्धावप्यनिष्टनिवृत्यर्थं निपातनसित्यर्थः । अपरे त्विति । तेषां मते नानेनार्थः सूत्रेण ॥