7-2-25 अभेः च अविदूर्ये न इट् वशि निष्ठायाम् अर्देः
अभिशब्दादुत्तरस्यार्देराविदूर्येऽर्थे निष्ठायामिडागमो न भवति। अभ्यर्णा सेना। अभ्यर्णा शरत्। आविदूर्य इति किम्? अभ्यर्दितो वृषलः। शीतेन पीडित इत्यर्थः। विदूरं विप्रकृष्टम्, ततोऽन्यदविदूरम्, तस्य भाव आविदूर्यम्। एतस्मादेव निपातनाद् <<न नञ्पूर्वात् तत्पुरुषात्०>> ५.१.१२१ इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति॥
अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥
<<अभेश्चाविदूर्ये>> - अभेश्चाविदूर्ये । अविदूरस्य भाव आविदूर्यम् । तस्मिन् गम्ये अभेः परोऽर्दिरनिट्क इत्यर्थः । सामीप्य इत्येव तु नोक्तम्, अनतिदूरस्य असङ्ग्रहापत्तेः । तत्सूचयन्नाह — नातिदूरमिति ।
विशेषेण दूरं विदूरं ततोऽन्यदिति । तत्पुनर्यदासन्नमविप्रकृष्ट्ंअ वा भवति तद्वेदितव्यम् । तस्य भाव आविदूर्यमिति । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । ननु च न नञ्पूर्वातत्पुरुषात् इति प्रतिषेधः प्राप्नोति तत्राह - एतस्मादेवेति । न नञ्पूर्वात् इत्यमयधिकारः, तेन ततः सूत्रादुतरस्य भाषप्रत्ययस्य प्रतिषेधस्तत्र क्रियत इति उतरस्येत्युक्तम् ॥