अर्देः संनिविभ्यः

7-2-24 अर्देः सन्निविभ्यः न इट् वशि निष्ठायाम्

Kashika

Up

index: 7.2.24 sutra: अर्देः संनिविभ्यः


सम् नि वि इत्येतेभ्य उत्तरस्य अर्देः निष्ठायाम् इडागमो न भवति। समर्णः। न्यर्णः। व्यर्णः। अर्देः इति किम्? समेधितः। संनिविभ्यः इति किम्? अर्दितः।

Siddhanta Kaumudi

Up

index: 7.2.24 sutra: अर्देः संनिविभ्यः


एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥