घुषिरविशब्दने

7-2-23 घुषेः अविशब्दने न इट् वशि निष्ठायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति। घुष्टा रज्जुः। घुष्टौ पादौ। अविशब्दन इति किम्? अवघुषितं वाक्यमाह। विशब्दनं प्रतिज्ञानम्। घुषिरशब्दार्थ इति भूवादिषु (४३६) षठ्यते, घुषिरविशब्दन इति चुरादिषु (१९५)। तयोरिह सामान्येन ग्रहणम्। विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज् विशब्दनार्थस्यानित्य इति। तेनायमपि प्रयोग उपपन्नो भवति — <<महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः>> (महाभाष्य ३.२८८) इति। स्वाभिप्रायं शब्देनाविष्कृतवन्त इत्यर्थः॥

Siddhanta Kaumudi

Up

घुषिर्निष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<घुषिरविशब्दने>> - घुषिरविशब्दने । घुष्टा रज्जुरिति । उत्पादितेत्यर्थः । आयामितेति वा । शब्देन अभिप्रायप्रकाशनं विशब्दनम् । तदाह — शब्देनेति ।

Padamanjari

Up

घुष्टा - अविशब्दिता । अवधुषितम् - विशब्दितम्, आविष्कृताभिप्रायमित्यर्थः । चौरादिकस्य चायं प्रयोगः स एव ह्यस्मिन्नर्थे वर्तते । द्वावपीति । घुषिरिति सूत्रोपातं रुपं द्वयोरपि साधारणमित्यर्थः । कथं सामान्येन ग्रहणम्, यावता विशब्दने णिचा भवितव्यम्, केवलश्चेह घुषिरुपातः अत ताअह - विशब्दनप्रतिषेधश्चेति । विशब्दनार्थस्यानित्य इति । अन्ये तु अनित्यण्यन्ताश्चनरादयः इति सामान्येन ज्ञापकमाहुः । अपर आह - चिति स्मृत्यामितीदित्वमत्र ज्ञापकमस्य हि । फलं चिन्तित तित्यादौ न लोपो मा स्म भूदिति ॥ नित्ये च णिचि सत्यत्र नलोपस्याप्रसङ्गतः । चिन्त स्मृत्यामित्येव च पठितव्यं भवेदिति ॥ अयमपीति । यद्यपि अवधुषितं वाक्यमाह - इत्येतदपि प्रयोजनम्, तथापि जुघुषुरित्यपि प्रयोग उपपन्न इत्यर्थः ॥