7-2-22 कृच्छ्रगहनयोः कषः न इट् वशि निष्ठायाम्
index: 7.2.22 sutra: कृच्छ्रगहनयोः कषः
कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोः निष्ठायाम् इडागमो न भवति। कष्टोऽग्निः। कष्टं व्याकरणम्। ततोऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रम् इत्युच्यते। गहने कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोः इति किम्? कषितं सुवर्णम्।
index: 7.2.22 sutra: कृच्छ्रगहनयोः कषः
कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥
index: 7.2.22 sutra: कृच्छ्रगहनयोः कषः
कृच्छ्रगहनयोः कषः - कृच्छ्रगहनयोः । कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते । कष्टं दुःखं, तत्कारणं चेति ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरकोशवाक्यम् । दुःखकारणे उदाहरति — कष्टो मोह इति । गहने उदाहरति — कष्टं शास्त्रमिति । गहनशब्दं विवृणोति — दुरवगाहमिति ।
index: 7.2.22 sutra: कृच्छ्रगहनयोः कषः
कषतिर्हिसार्थः । कष्टोऽग्निरिति । चीयमानोऽग्निरत्राग्निशब्देन विवक्षितः, स कष्टो भवति, चयनप्रकारस्य दुर्ज्ञानत्वात् । व्याकरमस्य कष्टत्वमिडागमादिव्यवस्थाया दुर्ज्ञानत्वात् । सान्नं कष्टत्वं वर्षभदस्य एस्वरस्य स्तोमादीनां च दुर्ज्ञानत्वात् । कारणमपीति । लक्षणया, कृच्छ्रमिति व्युत्पत्या वा ॥