7-2-21 प्रभौ परिवृढः न इट् वशि निष्ठायाम्
परिवृढ इति निपात्यते प्रभुश्चेद् भवति। परिवृढः कुटुम्बी। पूर्वेण तुल्यमेतत्। वृंहेर्निपातनम्। वृहिश्च यदि प्रकृत्यन्तरमस्ति, तस्यापि तदेव सर्वम्, हलोपनिपातनस्य च तदेव प्रयोजनम्। परिव्रढयति, परिव्रढय्य गतः, पारिवृढी कन्येति। परिवृढमाचष्ट इति विगृह्य वृढशब्दादेव णिजुत्पद्यते। संग्रामयतेरेव सोपसर्गाद् णिजुत्पत्तिरिष्यते, नान्यस्मादिति। तथा सति परिव्रढयतीति <<तिङ्ङतिङः>> ८.१.२८ इति निघातः। परिव्रढय्येत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति। प्रभाविति किम्? परिवृंहितम्। परिवृहितम्॥
वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः । परिवृंहितोऽन्यः ॥
<<प्रभौ परिवृढः>> - प्रभौ परिबृढः । प्राग्वदिति । तकारढत्वसय् हलोपस्य चेत्यर्थः ।
पूर्वेण समानमिति । इडभावादेर्निपात्यस्य तुल्यत्वात् । वृहेरिति । वृहि वृद्धौ इति वार्तिककारस्य पक्षः । बृहि वृद्धौ इति भाष्यकारस्य । वृहिश्च यदि प्रकृत्यन्तरमस्तीति । ततस्तस्यापि निपातनमित्यर्थः । तदेव प्रयोजनमिति । असिद्धत्वाभावः । अथं कथं परिवृढय्येत्यत्र ल्यबादेशः, यावता परिवृढमाचष्टे इति विग्रहे तत एव णिच् कर्तव्यः, समुदायस्य च धातुत्वात् क्त्वाप्रत्ययोऽपि तत थएव कर्तव्यः, ततश्च परेरपि क्त्वान्तेऽन्तर्भावान्नायं समासः, इह च परिव्रढयतीति परिशब्दस्य तिङ्न्तेऽन्तर्भवात् तिङ्डतिङ्ः इति निधातो न स्यात् इत्यत आह - परिवृढमाचष्ट इति विगृह्यएति । णिजुत्पद्यत इति । ण्यन्तं पठितव्यम् । अण्यन्तपाठे तु विगृह्यएति क्त्वाप्रत्ययो न स्यात्, असमानकर्तृकत्वात् । स्ग्रामयतेरेव सोपसर्गादिति । तयदत्र वक्तव्यं तद् भृशादिभ्यो भुव्यच्वेः इत्यत्रैवोक्तम् । निघातो भवतीति । अड्द्विर्वचनयोरप्युपलक्षणमेतत् - पर्यव्रढयत्, परिविव्रढयिषति । परिवृंहितमिति । वृंहेः प्रत्युदाहरणम् । परिवृहितमिति । वृहेः ॥