दृढः स्थूलबलयोः

7-2-20 दृढः स्थूलबलयोः न इट् वशि निष्ठायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दृढ इति निपात्यते स्थूले बलवति चार्थे। दृढःस्थूलः। दृढो बलवान्। किमत्र निपात्यते? दृंहेः क्तप्रत्यय इडभावः, हकारनकारयोर्लोपः, परस्य ढत्वम्। अथ दृहिः प्रकृत्यन्तरमस्ति? तत्राप्येतदेव सर्वं नलोपवर्जम्, नकारस्याभावात्। हलोपनिपातनं पूर्वत्रासिद्धत्वनिवृत्त्यर्थम्। ढलोपे हि सति तस्य पूर्वत्रासिद्धत्वाद् द्रढिमा, द्रढीयान्, द्रढयतीत्यत्र <<र ऋतो हलादेर्लघोः>> ६.४.१६१ इति रेफो न स्यात्। इह च परिद्रढय्य गत इति <<ल्यपि लघुपूर्वात्>> ६.४.५६ इति णेरयादेशो न स्यात्। इह च परिदृढस्यापत्यं पारिदृढी कन्येति गुरूपोत्तमलक्षणःष्यङ् ४.१.७८ प्रसज्येत। स्थूलबलयोरिति किम्? दृंहितम्। दृहितम्॥

Siddhanta Kaumudi

Up

स्थूले बलवति न निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । दृंहितोऽन्यः ॥

Laghu Siddhanta Kaumudi

Up

स्थूले बलवति च निपात्यते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दृढः स्थूलबलयोः>> - दृढः स्थूलबलयोः । बलशब्द अर्शाअद्यजन्तो बलवत्परः । तदाह — बलवति चेति । तस्येति । निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः । हस्य लोप इति । 'निपात्यते' इति शेषः । इदित इति । अनिदितस्तु नलोपः सिद्ध एवेति भावः । ननु हस्य ढत्वे कृते 'झषस्तथोर्धोऽधः' इति तकारस्य ध्तवे तस्य ष्टुत्वेन 'ढो ढे' इति ढलोपे दृढ इति सिद्धम्, ततश्च इडभाव एव नपात्यतां , न तु हकारलोपो ढत्वं चेति चेत् । मैवम् । तथाहि सति द्रढीयानित्यादौ ढलोपस्याऽसिद्धत्वेन ऋकारस्य संयोगपरकत्वम्, अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाऽभावादिति भाष्ये स्पष्टम् ।

Padamanjari

Up

एस्थूलः - मांसलः, दुर्बलोऽपि । अस्थूलोऽपि बलवान् - बलः । बलवति चेति । सूत्रे अर्शाअद्यच्प्रत्ययान्तं बलशब्दं दर्शयति । ओअंहेरिति । दृहि वृद्धौ इत्येतावान्पाठः - इति वार्तिककारस्य पक्षः, दृह दृहि वृद्धौ - इति भाष्यकारस्य । अथ किमर्थ हकारस्य लोपो निपात्यते, न ढत्वमेव निपात्यताम्, परस्य धत्वं ष्टुअत्वम्, ढो ढेअ लोपः दृढ इति सिद्धम् इत्यत आह - हकारलोपनिपातनमिति । रेफो न स्यादिति । रादिफः इत्यत्र वर्णादिति नाफेक्ष्यते, तेन रशब्दो न स्यादित्यर्थः । ढलोपस्यासिद्धत्वे संयोगे गुरु इति गुरुसंज्ञयोपजातया लघुसंज्ञाया बाधितत्वातन्निबन्धनकार्याप्रसङ्ग इत्यर्थः । इह चेति । गुरुसंज्ञानिबन्धनकार्यप्रसङ्गश्चेत्यर्थः । ओअंहितमिति । ओअंहेः प्रत्युदाहरणम् । दृहितमिति दृहेः । अत्र च दीर्घादिरुपेण वृद्धमुच्यते ॥