7-2-19 धृषिशसी वैयात्ये न इट् वशि निष्ठायाम्
index: 7.2.19 sutra: धृषिशसी वैयात्ये
वियातस्य भावो वैयात्यम् प्रागल्भ्यम्, अविनीतता। तत्र धृष शस इत्येतयोः निष्ठायाम् इडागमो न भवति। धृष्टोऽयम्। विशस्तोऽयम्। धृषेः आदितश्च 7.2.16 इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा 7.2.56, यस्य विभाषा 7.2.15 इति? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्ये इति किम्? धर्षितः। विशसितः।
index: 7.2.19 sutra: धृषिशसी वैयात्ये
एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥
index: 7.2.19 sutra: धृषिशसी वैयात्ये
धृषिशसी वैयात्ये - धृषिशसी । वियातः = अविनीतः, तस्य भावो वैयात्यम् । तत्रञि धृषा प्रागल्भ्ये॑ इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः,शसु हिंसाया॑मित्यस्य तुउदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह — अविनय एवेति । धृष्टो विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयात्याऽभावे इत्यर्थः । धर्षित इति । बालात्कृत इत्यर्थः । विससित इति । हिंसित इत्यर्थः । अत्र वैयात्याऽभावादिण्निषेधो नेति भावः । ननु धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपिआदितश्चे॑तीण्निषेद एव स्यादित्यत आह — भावादिकर्मणोस्त्विति । नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह — अत एवेति । भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , 'धृषिशसी वैयात्ये' इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात् । नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषयेविभाषा भावादिकर्मणो॑रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात् । तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माध्वस्त्विति । अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः । तत्र अवैयात्ये भावे उदाहरति — धृष्टं धर्षितमिति । आदिकर्मण्युदाहरति — प्रधृष्टओः प्रधर्षित इति ।
index: 7.2.19 sutra: धृषिशसी वैयात्ये
एञिधृषा प्रागल्भ्ये, शसु हिंसायाम्, षष्ठ।ल्र्थे प्रथमा । विरुपं यातम् - ग्मनम्, चेष्टतं यस्य स वियातः - अविनीतः । शसेरपीत्यादौ ग्रन्थे इट्प्रतिषेधः सिद्ध इत्यनुषङ्गः । अथ धृषेः विभाषा भावादिकर्मणोः इति विकल्पे प्राप्ते नित्यार्थं ग्रहणं कस्मान्न भवति तत्राह - भावादिकर्मणोरपीति । एवं चास्य आदित्वे प्रयोजनं चिन्त्यम् । धर्षितः - अभिभूतः पूर्ववदकित्वम् । विशसितः - विकृतः ॥