7-2-18 क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु न इट् वशि निष्ठायाम्
क्षुब्ध स्वान्त ध्वान्त लग्न म्लिष्ट विरिब्ध फाण्ट बाढ इत्येते निपात्यन्ते यथासंख्यं मन्थ मनः तमः सक्त अविस्पष्ट स्वर अनायास भृश इत्येतेष्वर्थेषु। क्षुब्ध इति भवति मन्थाभिधानं चेत्। क्षुब्धो मन्थः। क्षुभितमन्यत्। क्षुभितं मन्थेन। क्षुब्धा गिरिनदी इत्येवमाद्युपमानाद् भविष्यति। स्वान्तमिति मनोऽभिधानं चेत्। स्वनितमन्यत्। स्वनितो मृदङ्गः। स्वनितं मनसा। ध्वान्तमिति भवति तमोऽभिधानं चेत्। ध्वनितमन्यत्। ध्वनितो मृदङ्गः। ध्वनितं मनसा। लग्नमिति भवति सक्तं चेत्। लगितमन्यत्। म्लिष्टमिति भवत्यविस्पष्टं चेत्। म्लेच्छितमन्यत्। इत्वमप्येकारस्य निपातनादेव। विरिब्धमिति स्वरश्चेत्। विरेभितमन्यत्। <<रेभृ शब्दे>> इत्यस्यैतद् निपातनम्। अन्ये तु विरिभितमन्यदिति पठन्ति। रिभिं सौत्रं धातुं पठन्ति। ते विरिभितमिति प्रत्युदाहरन्ति। फाण्टमिति भवत्यनायासश्चेत्। फणितमन्यत्। यदशृतमपिष्टं च कषायमुदकसंपर्कमात्राद् विभक्तरसमीषदुष्णं तत् फाण्टम्। तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते। बाढमिति भवति भृशं चेत्। बाहितमन्यत्। <<बाहृ प्रयत्ने>> इत्यस्य धातोरेतद् निपातनम्। अतिशयश्च भृशमिहोच्यते॥
क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टमनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । बाहितम् ॥
<<क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु>> - क्षुब्धस्वान्त । क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश एषामष्टानां द्वन्द्वात्सप्तमी । यथासङ्ख्यमन्वयः । समुदायेनेति । मन्थादिष्वेते रूढाः । अवयवार्थाऽभिनिवेशो न कर्तव्य इत्याह- द्रव्यद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या । मन्थनदण्डश्चेति ।वैशाखमन्थमन्थानमन्थानोमन्थदण्डके॑ इत्यमरः । क्षुब्ध इति । 'क्षुभ संचलने' अस्मात् क्तः, इडभावो निपात्यते ।झषस्तथो॑रिति धः , जश्त्वम् । स्वान्तमिति । स्वनधातोः क्तः,अनुनासिकस्य क्वी॑ति दीर्घः । निपातनान्नेट् ।स्वान्तं ह्मन्मानसं मनः॑ इत्यमरः । ध्वान्तं तम इति ध्वनेः क्तः ।अनुनासिकस्य क्वी॑ति दीर्घः ।अन्धकारोऽस्त्रियां ध्वान्तं तमिरुआं तिमिरं तमः॑ इत्यमरः । लग्नं सक्तमिति । संबद्धमित्यर्थः । लगेः क्तः, इडभावः । ततर् रदाभ्यां परतवाऽभावात्कतं निष्ठानत्वमित्यत आह — निपातनादिति । म्लिष्टमविस्पष्टमिति । इडभावेव्रश्चे॑त षः । तकारस्य ष्टुत्वेन टः ।अथ म्लिष्टमविस्पष्ट॑मित्यमरः । विरब्धः स्वर इति । स्वरविशेष इत्यर्थः । 'रेभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धोऽध' इति धः । उभयत्र धातुस्वरूपं प्रदर्शयन्नाह — म्लेछ रेभृ अनयोरिति । इत्त्वमपीति । इडभावश्चेत्यर्थः । फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्यते । तस्याऽसिद्धत्वात्अनुनासिकस्ये॑ति दीर्घः ।अनायासकृतं फाण्ट॑मित्यमरः । वृत्तिकृन्मतमाह — कषायविशेष इति.॒यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीपषदुष्णं तत्फाम्टमित्युच्यते॑ इति वृत्तौ स्थितम् । वेदभाष्ये आहेति ।तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टं मननुष्याणा॑मिति शतपथब्राआहृणव्याख्यावसरे आहेत्यर्थः । बाढं भृशमिति । 'बाह्म प्रयत्ने' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः । अन्यत्र त्विति । मन्थादेर्वाच्यत्वाऽभाव इत्यर्थः ।
मन्थाभिधानं चेदिति । समुदायेन चेन्मन्थोऽभिधीयत इत्यर्थः । एतेन समुदायानामभिधेयभावेन मन्थादय एइहोपाता इति दर्शयति । यदि तु धात्वर्थोपाधित्वेनाश्रीयेरन् - मनथादिसाधने धात्वर्थे क्षुब्धादयो निपात्यन्त इति, तदा क्षुभितं मन्थेनेत्यादावपि स्यात् । द्रवद्रव्यसम्पृक्ताः सक्तवः- मन्थः । दधिमन्थान्मधुमन्थांश्चेति हि दृश्यते । अन्ये तु मथ्यतेऽनेनेति मन्थनदण्डः खञ्जकः - मन्थ इत्याहुः । मन्थादिषु क्षुब्धादिशब्दानां चलानादिक्रियायोगो यथासम्भवं द्रष्टव्यः । उपमानादिति । उपमानम् - सादृश्यम्, तचच् यथासम्भवं द्रष्टव्यम् । स्वान्तशब्देन विषयष्वविक्षिप्तमनाकुलं मन उच्यते । स्वनितं शब्दायितमित्यर्थः । मनसेति । कर्तरि करणे वा तृतीया । एवं ध्वनितं तमसेत्यत्रापि । लग्निमिति । रगे लगे ष्टगे संवरणे, अत्र निष्ठानत्वमपि निपात्यते । ग्लिष्टमिति । म्लेच्छ अव्यक्ते शब्दे । म्लेच्छितमिति । अपभाषितमित्यर्थ । अत्रार्थस्याविस्पष्टतया शब्दस्याविस्पष्टत्वमपशब्दानामपि स्वरुपेणाभिव्यक्तत्वात् । उदाहरणेषु वर्णानभिव्यक्तिः - विस्पष्टत्वम् । फाण्डमित्यादि । कः पुनरत्रानायासो विवक्षितः इत्यत आह - यदशृतमित्यादि । यस्य व्याधेर्यदौषधं जातं तस्य पञ्चधा कल्पान - रसः, कल्कः, शृतः, शीतः, फाण्ट इति । रसः - स्वरसः । कल्कः - पिष्टम् । शृतम् - क्वाथः । शीतो नाम - क्षुण्णमौषधजातमुदके प्रक्षिप्य रात्रावधिवासितमुदकं प्रातः पीयते । तदेवोष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते सः फाण्टः । यथाह वाग्भटः - सद्योऽभिषुत्य पूतस्तु फाण्टः इति । पञ्चाप्येते कषायाः । तत्राशृतमिति क्वाथस्य व्यावृत्तिः, अपिष्टमिति कल्कस्य, उदकसम्पर्केअणेति स्वरस्य, ईषदुष्णमिति शीतस्य, मात्रशब्दः स्वभावानुवादः । विभक्तरसम् प्राघवस्थाया भिन्नरसम् । यदेवम्भूतं कषायं तत्फाण्टमित्यर्थः । कषायशब्द उभयलिङ्गः । कथं पुनरेतदनायासशब्देनोच्यते लक्षणया । यदाह - अनायासेनेति ॥