7-2-17 विभाषा भावादिकर्मणोः न इट् वशि निष्ठायाम् आदितः
index: 7.2.17 sutra: विभाषा भावादिकर्मणोः
भावे आदिकर्मणि च आदितो धातोः विभाषा निष्ठायाम् इडागमो न भवति। मिन्नमनेन, मेदितमनेन प्रमिन्नः, प्रमेदितः। सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन। शकितो घटः कर्तुम्, शक्तो घटः कर्तुम्। भावे न भवत्येव, शक्तमनेन। अस्यतेर्भावे, असितमनेन। आदिकर्मणि च न भवत्येव, अस्तः काण्डः।
index: 7.2.17 sutra: विभाषा भावादिकर्मणोः
भावे आदिकर्मणि चादितो निष्ठाया इड्वा स्यात् । प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । ञिष्विदेति भ्वादिरत्र गृह्यते । ञीद्भिः साहचर्यात् । स्विद्यतेस्तु स्विदित इत्येव । ञिमिदा । ञिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट् किम् । प्रस्विन्नः । प्रस्विन्नं तेनेत्यादि ॥
index: 7.2.17 sutra: विभाषा भावादिकर्मणोः
विभाषा भावादिकर्मणोः - विभाषा भावादिकर्मणोः । आदितो निष्ठाया इड्वेति ।आदितश्चे॑त्यत आदित इति, 'श्वीदितः' इत्यतो निष्ठाग्रहणं ,नेड्वशी॑त्यतो नेति चानुवर्तते इति भावः । निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते । प्रस्वेदितश्चैत्र इति । चैत्रकर्तृका आरभ्यमाणप्रस्वेदनक्रियेत्यर्थः । ञीद्भिरिति । ञिरिद्येषां ते ञीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः । स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् । स्विद्यतेस्त्विति ।ञि ष्विदा गात्रप्रक्षरणे॑ इति दैवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः । स्विदित इति ।विभाषा भावे॑ति पक्षे इट् । कित्त्वनिषेधविधौ स्विद्यतेग्र्रहणाऽभावात्कित्त्वान्न गुण- । अत्र स्विदादीनाम्आदितश्चेति इट् प्रतिषिध्यते । भावादिकर्मणोस्तु पक्षे इट् ।
index: 7.2.17 sutra: विभाषा भावादिकर्मणोः
मेदितमनेनेति । निष्ठा शीङ् इति कित्वप्रतिषेधाद् गुणः । प्रमिन्न इति । आदिकर्मणि क्तः कर्तरि चेति कर्तरि क्तः । सौनागा इति । सुनागस्याचार्यस्य शिश्याः - सौनागाः । शकितो घटः कर्तुमिति । यद्यपि शकिः केवलोऽकर्मकः, तथापि तुमुनन्तवाच्यक्रियाविशेषणत्वेन सकर्मको भवति । तथा च कर्मणि लादयो दृश्यन्त - अयं योगः शक्योऽवक्तुम्, अयमर्थः शक्यते वक्तुमिति ॥