7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि न इट् वशि
index: 7.2.13 sutra: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यये इडागमो न भवति। कृ चकृव, चकृम। सृ ससृव, ससृम। भृ बभृव, बभृम। वृञ् ववृव, ववृम। वृङ् ववृवहे, ववृमहे। स्तु तुष्टुव, तुष्टुम। द्रु दुद्रुव, दुद्रुम। स्रु सुस्रुव, सुस्रुम। श्रु शुश्रुव, शुश्रुम। सिद्धे सत्यारम्भो नियमर्थः , क्रादय एव लिटि अनिटः, ततोऽन्ये सेटः इति। बिभिदिव, बिभिदिम। लुलुविव, लुलुविम। अनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्र्त्ययाश्रयः, तदुभयस्य अप्ययं नियमः। वृञो हि थलि ववर्थ इति निपातनाद् व्यवस्था। स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य 7.2.63 इत्यस्मादपि नियमात् य इट् प्राप्नोति सोऽपि नेष्यते। तुष्टोथ। दुद्रोथ सुस्रोथ। शुश्रोथ। कृञोऽसुट्कस्य इति वक्तव्यम्। ससुट्कस्य इडगमो यथा स्यात्। सञ्चस्करिव, सञ्चस्करिम। ऋतो भारद्वाजस्य 7.2.63 इत्येतदप्यसुट्कस्य एव इष्यते, सञ्चस्करिथ।
index: 7.2.13 sutra: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ।
index: 7.2.13 sutra: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात् ॥
index: 7.2.13 sutra: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि - कृसृ । कृ सृ भृ वृ स्तु द्रु रुआउ श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठर्थे सप्तमी । 'नेड्वशि कृती' त्यतो नेति इडिति चानुवर्तते । तदाह — एभ्य इति । ननुएकाच उपेदशेऽनुदात्ता॑दिति, 'श्र्युकः किति' इति च सिद्धे किमर्थमिदं सूत्रमित्यत आह -क्रादीनामिति । कृ सृ भृ वृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह - प्रकृत्याश्रय इत्यादि । कृ सृ भृ इत्येषां त्रयाणामनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोःश्र्युकः किती॑ति पत्र्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात्तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति, नतु तदन्येभ्यः परस्येत्यर्थः । तेन बिभिदिव बिभिदिमेत्यादौ 'एकाच उपदेशे' इति निषेधः, बभूविव बभूविमेत्यादौश्र्युकः किती॑ति निषेधश्च न भवति । अथ स्तुद्रुरुआउश्रुवां ग्रहणस्य प्रयोजनमाह — — तत इति ।अन्येषा॑मिति शेषः । चतुर्णामिति ।ग्रहम॑मिति शेषः । ततः = तेभ्यः कृसृभृवृ इत्येभ्यः — अन्येषां स्तुद्रुरुआउश्रुवां ग्रहणं थलि तुष्टोथ दुद्रोथ सुरुआओथ शुश्रोथ इत्यत्रऋतो भारद्वाजस्ये॑ति वक्ष्यमामेनऋदन्तस्यैव थलि नेट् अन्यस्य तु स्यादेवे॑ति नियमेन प्र#आप्तस्य इटो निषेधार्थम्, तथा तुष्टुव तुष्टुमेत्यादौ 'कृसृभृवृ' इत्युक्तेनक्रादिभ्य एव परस्य लिट इण्निषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवे॑ति नियमेन प्राप्तस्य इटो निषेदार्थं चेत्यर्थः । तदेवमजेस्थलि वीभावे 'एकाचः' इति निषेधाऽभावादिडागमो निर्बाध इति स्थितम् ।
index: 7.2.13 sutra: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
क्रादय एव लिट।ल्निट इति । लिट।लेव क्रादयोऽनिटः इत्येष तु विपरीतोऽत्र नियमो न भवति क्रादीनामनुदातोपदेशसामर्थ्यात् । कृतलब्धक्रीतकुशलाः, तमधीष्टो भृतो भूतः, परिवृतो रथः स्तुतस्तोमयोः इत्यादिनिर्देशाच्च । केन पुनरेषामिट्प्रतिषेधः सिद्धः, यतो नियमार्थोऽयमारम्भः इत्यत आह - अनुदातोपदेशानामित्यादि । वृङ्वृञ्भ्यामन्येऽनुदातोपदेशास्तेषां प्रकृत्याश्रयः एकाच उपदेशे इतीट्प्रतिषेधः सिद्धः । वृङ्वृञोस्तु प्रत्ययाश्रयः र्श्युकः किति त्येषिः । तस्मादुभयस्यापि - प्रकृत्याश्रस्य, प्रत्ययाश्रयस्य च । कथं पुनरयं प्रत्ययाश्रयचस्य नियमः, यावता वृग्रहणं वृञस्थलि विध्यर्थं सम्भवति, न हि तत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ उदातत्वात्, नापि प्त्ययाश्रयः थलः कित्वाभावात्, असति प्रत्ययाश्रयस्य नितयमे लुलुविथेत्यादाविण्न स्यात् इत्यत आह - वृञो हीति । व्यवस्था - नियमः । इह तुष्टोथेत्यादौ ऋतो भारद्वाजस्य इत्येतस्मान्नियमादिट् प्राप्नोति, ययिथेत्यादिवत् । यथा हि ययिथ, पपिथेत्यादौ आधेधातुकस्य इतीट् प्रप्तः एकाचः इति निषिद्धः, पुनः क्रादिनियमात् प्राप्तः अचस्तास्वत्थलि इति प्रतिषिद्धः, ततः ऋतो भारद्वाजस्य थलि प्रतिषेधो नान्येभ्यः इति नियमात्पक्षे इड् भवति, तथात्रापि स्यात् । कथं खलु क्रादिनियमस्य बाधकमचस्तास्वत् इति प्रतिषेधं बाधमानो भारद्वाजनियमः क्रादिप्रतिषेधं न बाधते कृसुभृवृ इत्येतेषु पुर्वायं दोषस्तेषामृकारान्तत्वेन भारद्वाजपक्षेऽपीटः प्रतिषेधात् । एवं तर्हि स्तुद्रुस्रुश्रुवां ग्रहणं विध्यर्थं भविष्यति, तासति हि विधेये नियमो भवति, इह चास्ति विधेयम्, किम् थलि भारद्वाजनियमादिटः प्राप्तस्य प्रतिषेधः, इतरेषां तु क्रादीनां ग्रहणं नियमार्थ भविष्यतीति । बिभिदिव, लुलुविवेत्यादावपि न दोषः । कथं पुनस्तुष्टुअमः अत्र हि क्रादिनियमादिट् प्राप्नोति नैष दोषः स्तुद्रुस्रुश्रुवां ग्रहणमुभयोरपि प्रतिषेधार्थम् । यश्च क्रादिनियमादिट् प्राप्तः यश्च भारद्वाजनियमात्, तयोरुभयोरपीत्यर्थः । यद्येवम्, येन नाप्राप्तिन्यायेन क्रादिनियममेव स्तुद्रुस्रुश्रुवां प्रतिषेधो बाधेत, न तु विकल्पेन प्राप्तं भारद्वाजनियमम्, ततश्चासौ स्यादेव इत्याशङ्क्याह - पूर्वकत्वातप्रतिषेधस्य पूर्व विधिप्रकरणं पठितव्यम्, आर्धधातुकस्य इत्यारभ्य ईडडजनोर्ध्वे च इत्येवमन्तम्, पश्चातप्रतिषेधप्रकरणम्, तद्यथाऽन्यत्रापि - कर्तरि कर्मव्यतिहारे , न गतिहिंसार्थेभ्यः इति । तत्रायमर्थो द्विरिड्ग्रहणं न कर्तव्यं भवति, प्रकृतमनुवर्तते । नन्वेवम्, रुदादिभ्यः सार्वधातुके इति सार्वधातुकग्रहणम्, लिङ्ः सलोपोऽनन्तयस्य इत्यत्र विच्छिद्येत एवं तर्हि न वृद्भ्यश्चतुर्भ्यः इत्यत्रैव पठितव्यम्, एवं हि विध्युतरकारश्च प्रतिषेधः कृतो भवति, द्विश्चेड्ग्रहणं न कर्तव्यं भवति, सार्वधातुकग्रहणं च सलोपे न विच्छिद्यते, अपि च द्विःप्रतिषेधो न कर्तव्यो भवति, सोऽयमेवं सिद्धे यत्पुरस्तातप्रतिषेधकाण्डं करोति, तस्यैततप्रयोजनम् - थानाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाध्येतेति । यदि तु भारद्वाजनियमात्परमिदं काण्डं क्रियेत, ततो मध्येऽपवादन्यायेव मारद्वाजनियमः अचस्तास्वत् इति प्रतिषेधेमेव, बाधेत, न तु क्रादिनिषेधमिति पुरस्तातप्रतिषेधकरणे न कश्चिद्दोषः । अपर आह - यत्र तत्र वा प्रतिषेधकरणमस्तु, सर्वथा तु भारद्वाजनियमः अचस्तास्वत् इति योगद्वयेन थलि यः प्रतिषेधः प्राप्तस्तस्यैव नियामकः, अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति, ततश्च स्तुद्रुस्रुश्रुवामपि भारद्वाजनियमेव थाचस्तास्वत् इति प्रतिषेध एव निवर्तते, न तु क्रादिप्रतिषेधः इति । तन्मते पुरस्तात्प्रतिषेधकरणस्य प्रयोजनमुतरत्र दर्शयिष्यामः । कृञोऽसुट इति वक्तव्यमिति । कृतेऽपि करोतिर्भवत्येवेति प्रतिषेधप्रसङ्गः ॥