सनि ग्रहगुहोश्च

7-2-12 सनि ग्रहगुहोः च न इट् वशि श्र्युकः

Kashika

Up

index: 7.2.12 sutra: सनि ग्रहगुहोश्च


ग्रह गुह इत्येतयोः उगन्तानां च सनि प्रत्यये परतः इडागमो न भवति। जिघृक्षति। जुघुक्षति। उगन्तानां च रुरूषति। लुलूषति। सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूउर्णुभरज्ञपि सनाम् 7.2.49 इति विकल्पविधानात् श्रयतिरत्र न अनुकृस्यते। ग्रहेर्नित्यं प्राप्तः। गुहेः ऊदित्वाद् विकल्पः।

Siddhanta Kaumudi

Up

index: 7.2.12 sutra: सनि ग्रहगुहोश्च


ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्या - <{SK2412}> इति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.12 sutra: सनि ग्रहगुहोश्च


ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात् । बुभूषति ॥ इति सन्नन्तप्रक्रिया ॥

Balamanorama

Up

index: 7.2.12 sutra: सनि ग्रहगुहोश्च


सनि ग्रहगुहोश्च - सनि ग्रहगुहोश्च । चकारात्श्र्युकः किती॑त्यत उक इत्यनुकृष्यते, न तु श्रयतिः, तस्यसनीवन्तर्धे॑ति विकल्पस्य वक्ष्यमाणत्वात् ।नेड्वशि कृती॑त्यतो नेडिति स इति स्थिते सनः कित्त्वात्ग्रहीज्ये॑ति रेफस्य संप्रसारणमृकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात्कत्वे सस्य षत्वे च कृते झषन्तत्वाऽभावे कथं भष्भाव इत्यत आह — सनः षत्वस्येति । कत्वस्याऽसिद्धत्वादित्येव सुचवचम् । जिघृक्षतीति । गृह् स इति स्थिते हकारादिणः परस्य षत्वं परत्वात् प्राप्तं, तस्याऽसिद्धत्वात् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्वमिति क्रम इतिभावः । गुहेः जुघुक्षतीत्युदाहार्यम् । उगन्तात् - - बुभूषति । अत्रश्र्युकः किती॑त्यनेन तु न सिध्यति, तत्र कित एव निषेधात् । परत्वादिडागमेइको झ॑लित्यस्याऽप्राप्तेः । स्पष्टं चेदं शब्देन्दुशेखरे । सुषुप्सतीति । सनः कित्त्वात्वचिस्वपी॑ति संप्रसारणं, लघूपधगुणाऽभावश्च ।

Padamanjari

Up

index: 7.2.12 sutra: सनि ग्रहगुहोश्च


चकार उगनुकर्षणार्थः । न च इको झल् इति सनः कित्वात् उगन्तानां पूर्वेणैव सिद्धिः किं कारणम् झलादौ सनः कित्वम्, न चान्तरेणेटट्प्रतिषेधं सन् झलादिर्भवति, तेन येषु प्रकृत्याश्रयः प्रतिषेधो नास्ति, तेष्वनेनैवेटि प्रतिषिद्धे झलचादित्वे सनः कितवमित्येष क्रमः । जिधृक्षतीति । रुदविद इत्यादिना सनः कित्त्वम्, ग्रहिज्यादिसूत्रेण तम्प्रसारणम्, हो ढः, षढो कस्सि, एकोचो बशो भष् । जुघुक्षतीति । गुहू संवरणे, स्वरितेत्, हलन्ताच्चेति सनः कित्वम् । अथ चकारेणोगिदिव श्रयतिरपि कस्मान्नानुकृष्यते अत आह - श्रिस्वृयूर्ण्वित्यादि ॥