7-1-79 वा नपुंसकस्य इदितः नुम् ना अभ्यस्तात् शतुः
अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो भवति। ददति, ददन्ति कुलानि। दधति, दधन्ति कुलानि। जक्षति, जक्षन्ति कुलानि। जाग्रति, जाग्रन्ति कुलानि॥
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥
<<वा नपुंसकस्य>> - शौ 'नाभ्यस्तच्छतुः' इति नित्यं नुम्निषेधे प्राप्ते — वा नपुंसकस्य । 'नाभ्यस्ताच्छतुः' इति सूत्रं नञ्वर्जमनुवर्तते । नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम्धातोः' इत्यतो नुमितिउगिदचा॑मित्यतः 'सर्वनामस्थाने' इति च अनुवर्तते । तदाह — अभ्यस्तादित्यादिना । ददन्तीति । नुमि अनुस्वारपरसवर्णौ । तुददिति । 'तद व्यथने' अस्माच्छतृप्रत्यये 'तुदादिभ्यश्शः' इति शः शपोऽपवादः, 'अतो गुणे' इति शतुरकारेण पररूपे तुदच्छब्दः, तस्मात्स्वमोर्लुक्, प्रत्ययलक्षणविरहादसर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भावः ।