नाभ्यस्ताच्छतुः

7-1-78 ना अभ्यस्तात् शतुः इदितः नुम्

Kashika

Up

index: 7.1.78 sutra: नाभ्यस्ताच्छतुः


अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति। ददत्, ददतौ, ददतः। दधत्, दधौ, दधतः। जक्षत्, जक्षतौ, जक्षतः। जाग्रत्, जाग्रतौ, जाग्रतः। शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते।

Siddhanta Kaumudi

Up

index: 7.1.78 sutra: नाभ्यस्ताच्छतुः


अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.78 sutra: नाभ्यस्ताच्छतुः


अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥

Balamanorama

Up

index: 7.1.78 sutra: नाभ्यस्ताच्छतुः


नाभ्यस्ताच्छतुः - नाभ्यस्ताच्छतुः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अभ्यस्तादित्यादिना । दददिति । ददत्शब्दात्सुः । हल्ङ्यादिलोपः ।नाभ्यस्ता॑दिति निषेधात् 'उगिदचाम्' इति नुम् न । अत्वन्तत्वाऽभावाच्च न दीर्घ इति भावः ।जक्ष भक्षहसरनयोः॑,जागृ निद्राक्षये॑,दरिद्रा दुर्गतौ॑,चकासृ दीप्तौ॑, 'शासु अनुशिष्टौ'दीधीङ् दीप्तिदेवनयोः॑,वेवीङ् वेतिना तुल्ये॑ इति सप्त धातवोऽदादौ पठिता सुग्विकरणाः । तेभ्यो लटः शत्रादेशे शब्लुकिं सुबुत्पत्तौ 'नाभ्यस्ताच्छतुः' इति निषेध इष्यते ।

Padamanjari

Up

index: 7.1.78 sutra: नाभ्यस्ताच्छतुः


दददिति । श्नाभ्यस्तयोरातः इत्यकारलोपः । जक्षदित्यादौ जक्षित्यादयः षट् इत्यभ्यस्तसंज्ञा । कथं पुनश्चतुर्भिर्योगैर्व्यवहितस्य नुमः प्रतिषेधः शक्यो विज्ञातुम् इत्याह - शतुरन्तरो न विहित इति । अनन्तर ईकारः शत्रन्तस्य न विहितः, एवं तदनन्तर इति यावद्विहितान्वेषणे नुमि पर्यवसानम् ॥