7-1-77 ई च द्विवचने इदितः नुम् नपुंसकस्य अस्थिदधिसक्थ्यक्ष्णाम् छन्दसि
index: 7.1.77 sutra: ई च द्विवचने
द्विवचने परतः छन्दसि विषये अस्थ्यादीनाम् ईकारादेशो भवति, स च उदात्तः। अक्षी ते इन्द्र पिङ्गले कपेरिव। अक्षीभ्यां ते नासिकाभ्याम्। अक्षी इत्यत्र नुम् परत्वादीकारेण बध्यते। तेन कृते सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इति पुनर्नुम् न क्रियते।
index: 7.1.77 sutra: ई च द्विवचने
अस्थ्यादीनामित्येव । अक्षीभ्यां ते नासिकाभ्याम् (अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्याम्) ।
index: 7.1.77 sutra: ई च द्विवचने
अक्षी इति । अक्षि - औ इति स्थिते औङ्ः शीभावः, पूर्वस्य इकारः, तत्र प्रथमयोः पूर्वसवर्णः इति दीर्घस्य दीर्घाज्जसि चेति नित्ये प्रतिषेधे प्राप्ते वा च्छन्दसि इति पक्षे पूर्वसवर्णदीर्घत्वम् । अकः सवर्णेदीर्घः इति वा दीर्घत्वम् । ननु चासत्यप्यस्मिन्वचने पूर्वसवर्णदीर्घत्वेनैव सिद्धम् नात्र पूर्वसवर्णदीर्घत्वम् प्राप्नोति, परत्वान्नुमा बाध्यते । एवं तर्हि च्छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः - मधोस्तृप्ता इवासते - इत्येवमाद्यर्थम्, तेन पुंवद्भावेन नुमि शीभावे चासति पूर्वसवर्णदीर्घत्वनापि सिद्धम् - अक्षी इति सत्यम् स्वरस्तु न सिध्यति, अक्षिशब्दस्य नब्विषयस्यानिसन्तस्य इत्याद्यौदातत्वात् । न च पुंवद्भावेन स्वरस्याप्यभावातिदेश इष्यते । तस्मात्स्वरार्थमात्रापीकार एव विधेयः ॥