7-1-50 आत् जसेः असुक् छन्दसि
index: 7.1.50 sutra: आज्जसेरसुक्
अवर्णान्तातङ्गादुत्तरस्य जसेः असुकागमो भवति छन्दसि विषये। ब्राह्मणासः पितरः सोम्यासः। ब्राह्मणाः सोम्याः इति प्राप्ते। ये पूर्वासो य उपरासः इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात् शिभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इति न भवति।
index: 7.1.50 sutra: आज्जसेरसुक्
अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ।
index: 7.1.50 sutra: आज्जसेरसुक्
जसेः इति पूर्वाचार्यानुरोधेन निर्द्देशः । ब्राह्मणास इति । असुकि कृते जसः सकारस्य श्रवणम्, असुकः सकारस्य विसर्जनीयः । येपूर्वास इत्यादि । चोद्यम् - उपरास इति । अपरशब्दस्यादेरुकारश्छान्दसः । यदि पुनरयं पूर्वान्तः क्रियते - अस्य जस्यसुक् इति, नैवं शक्यम्, अतो गुणे पररुपत्वं हि स्यात् । अकारोच्चारणं तु - उतरसूत्रे एदध्यस्यतीत्यादौ श्रवणार्थ स्यात् । सकृद्गतावित्यादि परिहारः । यद्यप्येत्सर्वनामसंज्ञाया पूर्वादिषु जसि विकल्पनादेव सिद्धम्, उभयासो जातवेदःस्याम इत्यत्र तु शीभावप्रसङ्गः, अत्र हि प्रथमचरम इति वकल्पं बाधित्वा सर्वादिषु पाठान्नित्या संज्ञा भवति, सा ह्यन्तरङ्गा ॥