7-1-49 स्नात्व्यि आदयः च छन्दसि क्त्वः
स्नात्वी इत्येवमादयः शब्दा निपात्यन्ते छन्दसि विषये। स्ना॒त्वी॑ म॑ला॒दिव (मै०सं०३.११.१०)। स्नात्वेति प्राप्ते। पी॒त्वी सोम॑स्य वावृधे (ऋ०३.४०.७)। पीत्वेति प्राप्ते। प्रकारार्थोऽयमादिशब्दः॥
आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । स्विन्नः स्नात्वी मलादिव (स्वि॒न्नः स्ना॒त्वी मला॑दिव) । पीत्वी सोमस्य वावृधे (पी॒त्वी सोम॑स्य वावृधे) । स्नात्वा पीत्वेति प्राप्ते ॥