7-1-48 इष्ट्वि इनम् इति च छन्दसि क्त्वः
इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये। यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते। इष्ट्वीनं देवान्। इष्ट्वा देवानिति प्राप्ते। पीत्वीनमित्यपीष्यते। चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धम्॥
क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥