7-1-47 क्त्वः यक् छन्दसि
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये। द॒त्त्वाय (ऋ०१०.८५.३३) सविता धियः। दत्त्वेति प्राप्ते। <<क्त्वापिच्छन्दसि>> ७.१.३८ इत्यस्यानन्तरमिदं कस्माद् नोच्यते? समास इति तत्रानुवर्तते॥
दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ॥
दत्वायेति । दो दद्धोः । सौभाग्यमस्यै दत्वाय, दत्वायास्मभ्यं द्रविणेह भद्रः - इत्यादिमन्त्रगतमुदाहरणम् । दत्वाय सविता धियमिति क्वचित्, पठ।ल्ते, तत्र तैतिरीयकास्तत्वायेति पठन्ति । क्त्वापि च्छन्दसीत्यादि । एवं हि पुनः क्त्वाग्रहणं न कर्तव्यं भवति ॥