इदन्तो मसि

7-1-46 इदन्तः मसिः छन्दसि

Kashika

Up

index: 7.1.46 sutra: इदन्तो मसि


छन्दसि विषये मसित्ययं शब्दः इकारान्तो भवति। मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति। तद्ग्रहणेन गृह्यते इत्यर्थः। पुनस्त्वोद्दीपयामसि। उद्दीपयामः इति प्राप्ते। शलभं भञ्जयामसि। भञ्जयामः इति प्राप्ते। त्वयि रात्रिं वसामसि। वसामः इति प्राप्ते।

Siddhanta Kaumudi

Up

index: 7.1.46 sutra: इदन्तो मसि


मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ।

Padamanjari

Up

index: 7.1.46 sutra: इदन्तो मसि


मसीत्यविभक्तिको निर्द्देशः । इकार उच्चारणार्थः । अन्तशब्दोऽवयववचनः - इत् अन्तो यस्य स इदन्तः । तपरकरणमसन्देहार्थम्, यन्तः इत्युच्यमाने सन्देहः स्यात् - किं यकारन्त ईदन्तः इदन्तो वेति तत्र यदि सकारोपमर्द्देन इकारान्तमभिप्रेतं स्यात्, मस इत इत्येव वाच्यं स्यात् । तस्मादवस्थित थएव सकार इकाह उपसृज्यते । अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते, ततश्च टित्वादेरागमलिङ्गस्याभावेऽपि अर्थादागमोऽयं सम्पद्यते । तदिदमुक्तम् - मसः सकारान्तस्येत्यादि । एवं च मस इक् इति वक्तव्यम् प्रत्याहारसन्देहप्रसङ्गातथा नोक्तम् ॥