7-1-45 तप्तनप्तनथनाः च छन्दसि तस्य
तस्येति वर्तते। छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येत आदेशा भवन्ति। तप् — शृ॒णोत॑ ग्रावाणः (तै०सं०१.३.१३.१)। शृणुतेति प्राप्ते। सु॒नोता॑ (ऋ०७.३२.८)। सुनुतेति प्राप्ते। तनप् — सं व॑र॒त्रा द॑धातन (ऋ०१०.१०.१.५)। धत्तेति प्राप्ते। तन — जु॑जुष्टन (ऋ०४.३६.७)। जुषतेति प्राप्ते। छान्दसत्वात् श्लुः। थन — यदिष्ठन। यदिच्छतेति प्राप्ते। पित्करणमङित्त्वार्थम्॥
तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ॥
शृणोतेति । श्रुवः शृ चेति श्नुप्रत्ययः शृभावश्च, पित्वे सति ङ्त्वाभावाद् गुणिः । दधातनेति । अत्रापि पित्वाभावात् श्नाभ्यस्तयोः इत्याकारलोपाभावः । जुजुष्टनेति । व्यत्ययेन परस्मैपदम्, तुदादित्वाच्छः, तस्य बहुलं च्छन्सि इति श्नुः ,द्विर्वजनम् । जुषेरनुदातेत्वात् जुषध्वमिति प्राप्त इति तु युक्तः पाठः । यदिच्छतेति प्राप्त इति । बह्वचास्तु - कोवस्तो मरुतो यतिष्टन इत्यस्यामृचि यतिष्ठनेति पठन्ति । यतिस्थनेति पदकाले, तत्रास्ते रुपम् ॥