तस्य तात्

7-1-44 तस्य तात् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तादित्ययमादेशो भवति। गा॑त्रं॒ गात्रम॒स्या॑नू॒नं कृणुतात् (मै०सं० ४.१३.४)। कृणुतेति प्राप्ते। ऊवध्यगो॒हं॑ पा॑र्थि॒वं खनतात् (मै०सं०४.१३.४)। खनतेति प्राप्ते। अ॒स्ना॑ र॒क्षः॒ सं॑सृ॒जतात् (मै०सं०४.१३.४)। संसृजतेति प्राप्ते। सू॑र्यं॒ च॑क्षु॒र्गमयता॒त् (मै०सं०४.१३.४)। गमयतेति प्राप्ते॥

Siddhanta Kaumudi

Up

मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते सूर्यं चक्षुर्गमयतात् (कृणुतेति प्राप्ते सूर्यं॒ चक्षु॑र्गमयतात्) । गमयतेति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

लोण्मध्यमपुरुषबहुवचनस्येति । प्रथमपुरुषैकवचनस्य तु ग्रहणं न भवति, च्छन्दसि दृष्टानुविधानात् । पूर्वोतराभ्यां बहुवचनाभ्यां वा साहचर्यात् । कृणुतादिति । कृवि हिंसाकरणयोः, धिन्वकृण्व्योर च इत्युप्रत्ययः, वकारस्य चाकरः, अतो लोपः ॥