7-1-43 यजध्वैनम् इति च छन्दसि
यजध्वमित्येतस्य एनमित्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये। यज॑ध्वैनं प्रियमेधाः॒ (ऋ०८.२.३७)। यजध्वमेनमिति प्राप्ते ॥
एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥