7-1-42 ध्वमः ध्वात् छन्दसि
छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति। अन्त॑रेवो॑ष्मा॑णं वारयध्वात् (काठ०सं०१६.२१)। वारयध्वमिति प्राप्ते ॥
अन्तरेवोष्माणं वारय ध्वात् । वारयध्वमिति प्राप्ते ॥