7-1-41 लोपः तः आत्मनेपदेषु छन्दसि
आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति। दे॒वा॑ अ॒दुह्र॒ (मै०सं०४.२.१३)। गन्धर्वाप्स॒र॑सो॒ अदुह्र (मै०सं०४.२.१३)। अदुहतेति प्राप्ते। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयम् (ऋ०१.१६४.२७)। दुग्धामिति प्राप्ते। दक्षिणतः पुमान् स्त्रियमुपशये (काठ०सं० २०.६)। शेत इति प्राप्ते। अपीत्यधिकाराद् न भवति — तत्र आत्मानमनृतं कुरुते। आत्मनेपदेष्विति किम्? उत्सं॑ दुहन्ति क॒लशं॒ चतु॑र्बिलम् (तै०ब्रा०३.७.४.१६)॥
छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ॥
अदुह्रएति । दुरेर्लङ् आत्मनेपदेष्वनतः इति झस्यादादेशः, बहुलं च्छन्दसि इति रुट्, तकारस्य लोपे द्वयोरकारयोः अतो गुणे पररुपत्वम् । शये इति । शेते इत्यत्र तलोपे कृते अयादेशः । दुहामिति । लोट्, टेरेत्वम्, आमेतः, तलोपः । अपीत्यधिकारादिति । एवं च आत्मनेपदेषु इति वचनं तस्यैव प्रपञ्चः ॥