अमो मश्

7-1-40 अमः मश् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अम् इति मिबादेशो गृह्यते। तस्य छन्दसि विषये मशादेशो भवति। वधीं॑ वृ॒त्रम् (ऋ०१.१६५.८)। क्रमीं वृक्षस्य शाखाम्। लुङि <<बहुलं छन्दस्यमाङ्योगेऽपि>>६.४.७५ इत्यडागमाभावः। शित्करणं सर्वादेशार्थम्। मकारस्यापि हि मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात्॥

Siddhanta Kaumudi

Up

मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-<{SK2225}> इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अमिति मिबादेशो गृह्यत इति । द्वितीयैकवचनस्य ग्रहणं न भवति च्छन्दसि दृष्टानुवधानाद्वक्ष्यमाणेषु बाहुल्येन तिङ निर्द्देशात् । वधीमिति । हन्तेर्लुङ्, लुङ् चि इति वधादेशः, च्लेः सिच्, इट्, मिपोऽम्भावः, तस्य मश् - अकार उच्चारणार्थः, अस्तिसिचोऽपृक्ते इतीट्, इट ईटि इति सिचो लोपः, सवर्णदीर्घत्वम् । शित्करणं सर्वादेशार्थमिति । अन्यथा हि अलोऽन्त्यस्य इति मकारत्य मकारवचने प्रयोजनाभावात्सर्वादेशो भविष्यति, अत आह - मकारस्यापीति । यथा मो राजि समः कौ इत्यत्रेति भावः । पञ्चमीनिर्द्देशाभावातु आदेः परस्य इत्येतन्न भवति । अथोच्यते - द्विमकारकोऽयं निर्द्देशः करिष्यते, तत्रैकस्य संयोगान्तलोपेऽपि वधीमित्यादि सिद्धमिति एवमपि लाघवे नास्ति विशेषः । किञ्चसंयोगान्तलोपस्यासिद्धत्वादपृक्तलक्षण ईट् एव स्यात् । एवं तर्हि यकारादिः करिष्यते, किम् यकारो न श्रूयते, बलि लुप्तनिर्द्दिष्टो यकारः नात्र किञ्चित् प्रम, णमस्ति, तस्माच्छित्करणम् ॥