7-1-38 क्त्वा अपि छन्दसि समासे अनञ्पूर्वे क्त्वः ल्यप्
समासेऽनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल्ल्यबपि भवति छन्दसि विषये। कृष्णं॑ वा॑सो य॑जमानं परिधापयित्वा (काठ०सं०११.१०)। प्र॒त्यञ्च॑म॒र्कं प्॑रत्यर्पयि॒त्वा (शौ०सं० १२.२.५५)। ल्यबपि भवति — उद्धृत्य जुहुयात् (काठ०सं०६.६)। वा छन्दसीति नोक्तं सर्वोपाधिव्यभिचारार्थम्। तेनासमासे ल्यब् भवति। अर्च्य तान् देवान् गतः। छन्दोऽधिकार <<आज्जसेरसुक्>> ७.१.५० इति यावत्॥
यजमानं परिधापयित्वा ॥
अपिशब्दाल्ल्यबपीति । स च समासेऽसमासे च भवति, अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य, अन्यथा वा च्छन्दसि इत्येव वाच्यं स्यात्, तथा च छन्दोविधानमुनवदधानाः कल्पसूत्रकारा अपि प्रयुञ्जते - आज्येनाक्षिणी अज्येत्यादि ॥