आत औ णलः

7-1-34 आतः औ णलः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति। पपौ। तस्थौ। जग्लौ। मम्लौ। अत्रौत्वमेकादेशः स्थानिवद्भावो द्विर्वचनमित्यनेन क्रमेण कार्याणि क्रियन्ते। एकादेशादनवकाशत्वादौत्वम् द्विर्वचनादपि परत्वादेकादेश इति॥

Siddhanta Kaumudi

Up

आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥

Laghu Siddhanta Kaumudi

Up

आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आत औ णलः>> - तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते — आत औ । 'औ' इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते । 'आत' इति तद्विशेषणम् । तदन्तविधिः । तदाह — आदन्ताद्धातोरिति । णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च णल औत्वे वृद्धौ रूपमाह — दधाविति ।

Padamanjari

Up

पपावित्यादौ पा - अ इति स्थिते युगपत् त्रीणि कार्यणि प्राप्नुवन्ति द्विर्वचनम्, सवर्णदीर्घत्वमेकादेशः, औत्वमिति, तत्र येन क्रमेणैतानि कर्तव्यानि, तद्दर्शयति - अत्रेति । लित्स्वरं तु नोपन्यस्याति, सर्वथान्तोदातत्वसिद्धेः । उक्तक्रमे हेतुमाह - एकादेशादिति । यदि पूर्वमेकादेशः स्याव्द्यपवर्गाभावादौत्वं न स्यादित्यनवकाशं तत् । परत्वादेकादेश इति । अत्र वृद्धिरेकादेशः, तस्य स्थानिवद्भावाद् द्विर्वचनम्, स्थानिवद्भावस्तु द्विर्वचनेऽचि इति । तत्र ह्यचीति न स्थानिवद्भावस्य निमितनिर्द्देशः किं तर्हि अजादेशस्य - द्विर्वचननिमितेऽचि योऽजादेश इति । तेन सम्प्रत्यच्परत्वाभावेऽपि स्थानिवद्भावो भवत्येव । ओकारौकारयोर्लाघवे विशेषाभावात्प्रयोगसमवाय्यौकार एव विहितः । अपर आह - आङ्प्रश्लिष्टाकार ओकारः, तस्योच्चारणे प्रयत्नलाघवं भवति विश्लिष्टाकार औकारस्तस्योच्चारणे प्रयत्नगौरवं भवति, तद्विधानं दरिद्रात्यर्थम्ददरिद्रौ, अत्र दरिद्रातेरार्द्धधातुके लोपो वक्तव्यः इत्याकारलोपेऽप्यौकारस्य श्रवणम् भवति । यद्यपि सिद्धश्च प्रत्ययविधौ इति वचनाल्लिटि विवक्षित एवाकार लोपे सत्यौत्वस्याप्रसङ्गः, यद्यपि च सास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामि सति णल एवासम्भवः, तथाप्यौत्वविधानसामर्थ्याद् द्वयमप्येतन्न भवति ॥