7-1-33 सामः आकम् युष्मदस्मद्भ्यां
index: 7.1.33 sutra: साम आकम्
साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते। तस्य युष्मदस्मद्भ्यामुत्तरस्य आकम् इत्ययमादेशो भवति। युष्माकम्। अस्माकम्। अथ किमर्थमागतसुट्को गृह्यते, न घादेशविधानकाले सुड् विद्यते? तस्य एव तु भाविनः सुटो निवृत्त्यर्थम्। आदेशे कृते हि शेषेलोपे युष्मदस्मदोरकारान्तत्वात् सुट् प्राप्त्नोति, स स्थान्यन्तर्भूतत्वात् निवर्तते। दीर्घोच्चारणं सवर्णदिर्घार्थम्। अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति? तत्सामर्थ्यम् एत्वं प्रति भविष्यतीति अकारकरणमेत्वनिवृत्त्यर्थम् इति। अतो गुणे पररूपत्वं स्यात्।
index: 7.1.33 sutra: साम आकम्
आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥ 1 ॥ सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते । त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ 2 ॥ एते परत्वाद्बाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3 ॥ द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ 4 ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् 2 । अतिमाम् 2 । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् 2 । अतिमत् 2 । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु ॥ युवामावां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुवाम् 3 । अत्यावाम् 3 । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् 3 । अत्यावाभ्याम् 3 । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् 2 । अत्यावत् 2 । ओसि । अतियुवयोः 2 । अत्यावयोः 2 । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् 3 । अत्यस्माम् 3 । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् 3 । अत्यस्माभ्याम् 3 । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः 2 । अत्यस्मयोः 2 । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥
index: 7.1.33 sutra: साम आकम्
आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु ॥
index: 7.1.33 sutra: साम आकम्
साम आकम् - साम आकम् । आभ्यामिति ।युष्मदस्मद्भ्यां ङसो॑शित्यतस्तदनुवृत्तेरिति भावः । साम इति । सकारेण सहित आम्-साम्, तस्येत्यर्थः, ससुट्कस्य आम इति यावत् । ननु युष्मद् आम्, अस्मद् आमिति स्थिते अवर्णात्परत्वाऽभावात्सुटो न प्रसक्तिः । नच 'शेषे लोपः' इति तस्य लोपे कृते ।ञवर्णात्परत्वमस्तीति वाच्यम्, आकमादेशात्प्रागनादेशतया शेषेलोपस्यैवात्राऽप्रसक्तेः ससुट्कनिर्देशोऽनुपपन्नो व्यर्थश्चेत्यत आह — भाविन इति । भविष्यत इत्यर्थः । यदि तु 'आम आकम्' इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषेलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्त्वात्तस्य चाऽवर्णात्परत्वात्सुडागमः स्यात् । तत एत्वषत्वयोर्युष्मेषाकम्, अस्मेषाकमिति स्यादतः ससुट्कनिर्देशः । यद्यपि आकमादेशप्रवृत्तकाले सुटो न प्रसक्तिस्तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट भविष्यति, तस्यापि स्थानषष्ठआ स्वीकरणान्निवृत्तिर्भवति । अन्यता ससुट्कनिर्देशवैयथ्र्यादिति भावः । यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽप्याकमादेशेऽदो लोपेऽवर्णात्परत्वाऽभावादेव सुटः प्रसक्त्यभावलात्ससुट् कनिर्देशो मास्तु । युष्माकमस्माकमिति । आकमादेशे कृतेऽदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घः । एतदर्थमेव दीर्घोच्चारणम् । अन्यता पररूपापत्तेः । न चाऽकारोच्चारणसामर्थ्यादेव पररूपनिरास इति वाच्यं,क॑मादेशे प्राप्तबहुवचने झल्ये॑दित्येत्त्वनिवृत्त्या चरितार्थत्वादित्यलम् । त्वयि मयीति । युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयोर्योऽची॑ति दस्य यत्वे पररूपे रूपमिति भावः । युवयोः #आवयोरिति । प्राग्वत् । युष्मासु अस्मास्विति । युष्मदस्मदोरनादेशे॑ इति दकारस्य आत्वे सवर्णदीर्घ इति भावः । 'त्वमावेकवचने' इत्यत्र 'युवावौ द्विवचने' इत्यत्र च एकवचनद्विवचनशब्दौ यौगिकौ, नतु प्रत्ययपराविति स्थितम् । तत्फलं श्लोकचतुष्टयेन सङ्गृह्णाति — समस्यमाने इति । तत्र प्रथमश्लोकेचे॑दित्यनन्तरम्अपी॑त्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी द्व्येकत्ववाचिनी तदा समासार्थोऽन्यसङ्ख्यश्चेदपि युवावौ त्वमावपि स्त इत्यन्वयः । त्वां मां वा अतिक्रान्तः; अतिक्रान्तौ, अतिक्रान्ता इति, युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे-॒अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा तदा समासार्थः मुख्यविशेष्यभूतोऽन्यसङ्ख्यश्चेदपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमादेशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात् । एकवचने प्रत्यये परतस्त्वमादेशौ, द्विवचने प्रत्यये परतो युवावादेशौ इत्यर्थाश्रयणे तु त्वां मां वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे अतियुष्मद्शब्दे अत्यस्मच्छब्दे च युष्मदस्मदोर्द्विवचने बहुवचने च प्रत्यये परे त्वमै न स्याताम् । तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिः स्यादित्यर्थः । ननु युष्मद्समदोद्व्र्यर्थकत्वे युवावौ, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम् ।नेत्याह — सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम् ।इती॑त्यनन्तरं 'ये' इत्यध्याहार्यम् ।त्वाहौ सौ॑,यूयवयौ जसि॑,तुभ्यमह्रौ ङयि॑,तवममौ ङसी॑ति सुजस्ङेङस्सु ये आदेशा विहितास्ते अतियुष्मदत्यस्मच्छब्दाभ्यामेकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः । ननु तत्रापि द्व्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एतीति । तृतीयश्लोके पूर्वाद्र्धमेकं वाक्यम् ।एते=त्वाहादयः, स्वके=स्वीये विषये सुजसादौ, युवाबौ बाधन्ते । कुतः । परत्वात् । युवावापेक्षया एतेषां परत्वादित्यर्थः । नन्वस्त्वेवं त्वाहादिभिर्युवाबयोर्बाधः, त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह — त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्वं पूर्वविप्रतिषेधः । 'सुप्सुपा' इति समासः । तृतीयान्तात्तसिः । विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भावः ।प्रत्ययोत्तरण्दयोश्च॑ इति सूत्रभाष्ये तु 'त्वमावेकवचने' इति सूत्रे 'शेष' इत्यनुवत्र्यसुजस्ङेङस्भिन्नविभक्तिषु॑ इति व्याख्यातम् ।तदेवंत्वमावेकवचने॑, 'युवावौ द्विवचने' इत्यत्र एकद्विवचन्शब्दयोर्यौगिकत्वाश्रयणस्याऽव्याप्तिपरिहारार्रथत्वमुक्त्वाऽतिव्याप्तिपरिहारार्थत्वमाह-द्व्यकसङ्ख्य इति । चतुर्थश्लोकेऽस्मिन् 'यदा'तदे॑त्यध्याहार्यम् । यदा युष्मान् अस्मान्वा अतिक्रान्तौ अतिक्रान्ता इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टः समासार्थः=समासस्य मुख्यविशेष्यभूतः, युष्मदस्मदी तु बह्वर्थके, तदा युवावौ त्वमौ च न स्तः, तयोः युष्मदस्मदोर्द्वित्वैकत्वविशेष्टार्थकत्वाऽभावात् । युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात् । द्विवचने एकवचने च प्रत्यये परत इत्यर्थाश्रयणे तत्राऽतिव्याप्तिः स्यादित्यर्थः । अत्रप्रत्ययोत्तरपदयोश्चे॑ति सूत्रे भाष्येत्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहण॑मिति वार्तिकव्याख्यावसरे 'युवावौ द्विवचने' 'त्वमावेकवचने' इत्यत्र द्विवचनैकवचनशब्दयोर्यौगिकत्वाश्रयणमुपक्षिप्य युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वा मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहान् प्रदश्र्य, अतियुष्मदत्यस्मच्छब्दयो सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदर्शितौ । सुजसङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येत एवादेशा उदाहृताः । तदिदं श्लोकचतुष्टयेन संगृहीतम् । तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति-त्वा मां वा अतिक्रान्त इत्यादिना । अतिक्रान्तौ अतिक्रान्ता इति च विग्रहयोरुपलक्षणमिदम् । 'विग्रहे' इत्यनन्तरं 'रूपाणि वक्ष्यन्ते' इति शेषः । सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावे भवतः । अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्रौ, तवममौ इत्येते एवादेशाः पूर्वप्रतिषेधात्त्वमौ बाधित्वा भवन्ति । ततश्च सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेनव रूपाणीति निष्कर्षः । अतित्वाकमतिमाकमिति । ननुसामः आक॑मिति ससुट्कनिर्देशाद्यत्र आमः सुट्संभवस्तत्रैवाकम्, नचात्र सुट् संभाव्यते, इह युष्मदस्मदोरुपसर्जनत्वे सर्वनामत्वाऽभावात् । सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत्, मैवम्-ससुट्कत्वस्य संभावनामात्रविषयत्वात् । एवंच सुट् यत्र संभविष्यति तत्र सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । यत्र तु सुट् न संभवति, तत्र केवलस्य आमः सुट् । अत्र चप्रत्ययोत्तरपदयोश्चे॑ति सूत्रेऽतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत् । तदेवमुपसर्जनयोः युष्मद्समदोरेकार्थवाचित्वं उदाहरणान्युक्त्वा द्व्यर्थवाचित्वे उदाहरति — युवामावां वा अतिक्रान्त इति । अतिक्रान्तौ अतिक्रान्ता इति विग्रहयोरुपलक्षणम् । अत्र युष्मदस्मदोद्वर्य्र्थृत्तित्वात्सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवतः । अवसिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेव रूपाणिति निष्कर्षः । अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह — युष्मान् अस्मान्वेति । युष्मानस्मान्वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थः ।द्वयेकसङ्ख्यः समासार्थः॑ इति चतुर्थश्लोकस्योदाहरणान्येतानि । अत्र युष्मस्स्मदोरेकद्व्यर्थवाचित्वाऽभावात्सुजस्ङेङस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ, नापि युवावौ । 'ङे प्रथमयोः' इत्याद्यास्तु भवन्त्येव । सुजस्ङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येते भवन्त्येव । तेषामेकद्व्यर्थविशेषणिबन्धनत्वाऽभावात् । प्राग्वदिति । केवलयुष्मस्मद्वदित्यर्थः । इत्यधिकृत्येति । 'विधयो वक्ष्यते' इति शेषः । अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि । तत्रपदस्ये॑टत्येतत्अपदान्तस्य मूर्धन्यः॑ इत्यतः प्रागधिक्रियते । 'पदात्' इत्येतत्तुकृत्सने च सुप्यगोत्रादौ॑ इत्यतः प्रागदिक्रियते ।अनुदात्तं सर्वमपादादौ॑ इति पदत्रयं तु आ पादसमाप्तेरधिक्रियते इति भाष्यादिषु स्पष्टम् ।