एकवचनस्य च

7-1-32 एकवचनस्य च युष्मदस्मद्भ्यां पञ्चम्याः अत्

Kashika

Up

index: 7.1.32 sutra: एकवचनस्य च


पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्य अतित्ययमादेशो भवति। त्वद् गच्छन्ति। मद् गच्छन्ति।

Siddhanta Kaumudi

Up

index: 7.1.32 sutra: एकवचनस्य च


आभ्यां पञ्चम्येकवचनस्य अत्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.32 sutra: एकवचनस्य च


आभ्यां ङसेरत्। त्वत्। मत्॥

Balamanorama

Up

index: 7.1.32 sutra: एकवचनस्य च


एकवचनस्य च - अथ पञ्चमी । एकवचनस्य च ।युष्मदस्यद्भ्यां ङसोऽश् इत्यतोयुष्मदस्मद्भ्या॑मित्यनुवर्तते, 'पञ्चम्या अत्' इति च, तदाह-आभ्यामिति । युष्मस्मद्भ्यामित्यर्थः । अनेकाल्त्वात्सर्वादेशः । 'न विभक्तौ' इति तस्य नेत्त्वम् । त्वत् मदिति । युष्मद् अस्, अस्मद् अस् इति स्थिते त्वमादेशयोः कृतयोः ङसेरदादेशे सति पररूपे 'शेषे लोपः' इति टिलोपः । अन्त्यलोपपक्षे दकारलोपे सति त्रायाणामकाराणां पररूपमिति भावः । सुवचमिति । लाघवादिति भावः ।