पञ्चम्या अत्

7-1-31 पञ्चम्याः अत् युष्मदस्मद्भ्यां भ्यसः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अदित्ययमादेशो भवति। युष्मद् गच्छन्ति। अस्मद् गच्छन्ति॥

Siddhanta Kaumudi

Up

आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥

Laghu Siddhanta Kaumudi

Up

आभ्यां पञ्चम्या भ्यसोऽत्स्यात्। युष्मत्। अस्मत्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पञ्चम्या अत्>> - पञ्चम्या अत् ।युष्मदस्मद्भ्यां ङसोऽ॒शित्यतो॑ युष्मदस्मद्भ्यामित्यनुवर्तते ।भ्यसोऽभ्य॑मित्यतो 'भ्यस' इति । तदाह-आभ्यामिति । युष्मदस्मद्भ्यामित्यर्थः । युष्मत् अस्मदिति । युष्मद् भ्यस्, अस्मद् भ्यसिति स्थिते भ्यसोऽदादेशः । शेषलोपश्च ।

Padamanjari

Up