7-1-30 भ्यसः भ्यम् युष्मदस्मद्भ्यां
index: 7.1.30 sutra: भ्यसो भ्यम्
युष्मदस्मद्भ्यामुत्तरस्य भ्यसः भ्यम् इत्ययमादेशो भवति। युष्मभ्यं दीयते। अस्मभ्यं दीयते। भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत् 7.3.103 इति एत्वं प्राप्नोति, ततङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति। केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति। येषां तु शेषेलोपः टिलोपः, तेषामभ्यमादेश एव। उदात्तनिवृत्तिस्वरश्चादेरेव भवति।
index: 7.1.30 sutra: भ्यसो भ्यम्
भ्यसो भ्यमभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥
index: 7.1.30 sutra: भ्यसो भ्यम्
आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥
index: 7.1.30 sutra: भ्यसो भ्यम्
भ्यसः भ्यम् - भ्यसोभ्यम् । भ्यमभ्यमिति वा छेदः । तदाद-भ्यस इति ।युष्मदस्मद्भ्यां परस्ये॑ति शेषः,युष्मदस्मद्भ्यां ङसोऽश् इत्यतस्तदनुवृत्तेः । ननु ब्यमादेशपक्षे 'शेषे लोपः' इत्यदो लोपे युष्मभ्यमस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह — आद्य इति । लक्ष्यानुरोधादिहाऽन्त्यलोपपक्ष एवाश्रयणीयः । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति 'बहुवचने झल्येत्' इत्येत्त्वं स्यादित्यत आह — तत्राङ्गवृत्तेति ।अङ्गवृत्तेः पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गेवृत्तं वर्तनं यस्य तत्-अङ्गवृत्तं, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः=विदिर्नास्तीत्यर्थः । प्रकृते च शेषलोपे अङ्गकार्ये प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः । अभ्यम् त्विति । अब्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाऽभावात्तस्मिन् परे एत्त्वं न । किन्तु पररूपे सति युष्मभ्यमस्मभ्यम् इति सिध्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वाऽभावादपि एत्त्वं न ।
index: 7.1.30 sutra: भ्यसो भ्यम्
एत्वं प्राप्नोतीति । सुपि चेति दीर्घस्याप्युपलक्षणमेतत् । अङ्गवृत इत्यादि । अस्यार्थः पूर्वमेव व्याख्यातः । केचित्पुनरित्यादि । येषां शेषेलोपोऽन्त्यस्य लोपः तेषामतो गुणे पररुपत्वमेकादेशः, स्वरश्च । एत्वनिवृत्वार्थमिति । अत्रापि दीर्घस्याप्युपलक्षणम्, एत्वनिवृत्या चाकारोच्चारणस्यार्थवत्वात्सवर्णदीर्घत्वं तेषां न एभवति । येषां त्विति । अन्त्यलोपपक्षे मतभेदः - भयमादेशः, अभ्यमादेश इति । टिलोपपक्षे त्वषश्यमभ्यमादेशः, अन्यथा रुपासिद्धे । नन्वेवं स्वरे दोषः, कथमनुदातस्य च यत्रोदातलोपः इत्यत्र कर्षात्वतो घञोन्त उदातः इत्यन्तोदातग्रहणमनुवर्तते, ततश्च भ्यमोऽन्तोदातत्वं प्राप्नोति अत्यत आह - उदात्त्निवृत्तिस्वरश्चेति । न तत्रान्तग्रहणमनुवर्तते, उच्चारणक्रमे प्रत्यासत्या चादेरेवोदातत्वं भवतीत्यर्थः ॥