शसो न

7-1-29 शसः न युष्मदस्मद्भ्यां

Kashika

Up

index: 7.1.29 sutra: शसो न


युष्मदस्मद्भ्यासुत्तरस्यशसो नकारादेशो भवति। युष्मन् ब्राह्मणान्। अस्मान् ब्राह्मणान्। युष्मन् ब्राह्मणीः। अस्मान् ब्राह्मणीः। युष्मान् कुलानि। अस्मान् कुलानि।

Siddhanta Kaumudi

Up

index: 7.1.29 sutra: शसो न


नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् । अमोपवादः । आदेः परस्य <{SK44}> । संयोगान्तस्य लोपः <{SK54}> । युष्मान् । अस्मान् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.29 sutra: शसो न


आभ्यां शसो नः स्यात्। अमोऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान्। अस्मान्॥

Balamanorama

Up

index: 7.1.29 sutra: शसो न


शसो न - अथ शसि विशेषमाह — शसो न । 'ङे प्रथमयोः' इत्यतोऽमित्यनुवर्तते । युष्मदस्मद्भ्यामिति च । युष्मदस्मद्भ्यां परस्य शसोऽम् न स्यादिति लभ्यते । तथाच अमभावेद्वितीयायां चे॑त्यात्वे पूर्वसवर्णदीर्घेतस्माच्छस नः पुंसी॑ति नत्वे युष्मानिति यद्यपि पुंसि रूपं सिध्यति तथापि युष्मान् ब्राआहृणैइः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान् ब्राआहृणकुलानि पस्य, असमान् ब्राआहृणकुलानि पस्येति स्त्रीनपुंसकयोर्न सिध्येत । अतो नेदं सूत्रं शसोऽम्निषेधपरं, किं तु शसो नकारोऽत्र विदीयते इत्यभिप्रेत्य — तर्हि 'शसो न' इति प्रथमा कुतो न श्रूयते इत्याशङ्क्यच आह — नेत्यविभक्तिकमिति । लुप्तप्रथमाविभक्तिकमित्यर्थः । ततस्च फलितमाह — युष्मदस्मद्भ्यामित्यादिना । अमोऽपवाद इति । 'ङे प्रथमयोः' इति प्राप्ते एव नत्वविधेस्तदपवादता । युष्मद् अस्, अस्मद् अस् इति स्थितेद्वितीयायां चे॑त्यात्वेऽनेन शसो नकारः । स चअलोऽन्त्यस्ये॑ति नान्त्यस्येत्याह — आदेः परस्येति । संयोगान्तस्येति । अकारस्य नकारे कृते सकारस्य लोप इति भावः । यद्यपि शसोऽमि कृतेऽपि अकारस्य नकारे मकारस्य संयोगान्तलोपे युष्मान् अस्मानिति सिध्यति, तथापिसत्यपि सम्भवे बाधनं भवती॑ति न्यायान्नत्वस्य अमपवादत्वमाश्रितम् । किंच अमि कृते 'ङे प्रथमयोः' इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य संयोगान्तलोपो न स्यादित्यलम् । अथ तृतीया । युष्मद् आ अस्मद् आ इति स्थिते- ।

Padamanjari

Up

index: 7.1.29 sutra: शसो न


नेत्यविभक्तिको निर्द्देशः, तथा च पूर्वसूत्रेण प्राप्तस्यायममः प्रतिषेध इति माष्ये शङ्कितम् - कः पुनः प्रतिषेधे सति दोषः, यावताऽमि प्रतिषिद्धे योऽचि इति यत्वे च द्वितीयायां इत्यात्वे कृते प्रथमयोः पूर्वस्यर्णदीर्घत्वे कृते तस्माच्छसो नः पुंसि इति नत्वे च युष्मानिति सिद्ध्यत्येव सत्यं पुंसि सिद्ध्यति स्त्रीनपुंसकयोस्तु न सिद्ध्यति, तदिदं दर्शितम् - युष्मान् अस्मान् ब्राह्मणीरित्यादि । अलिङ्गे वा युष्मास्मदी इति । लिङ्गानुशासने तथा पाठात् । उदाहरणे तु आदेः परस्य इत्यकारस्य नकारे सकारस्य संयोगान्तलोपः ॥