6-4-96 छादेः घेः अद्व्युपसर्गस्य असिद्धवत् अत्र आभात् अचि उपधायाः ह्रस्वः
index: 6.4.96 sutra: छादेर्घेऽद्व्युपसर्गस्य
छादेरङ्गस्य अद्व्युपसर्गस्य घप्रत्यये परतः उपधायाः ह्रस्वो भवति। उरश्छदः प्रच्छदः। दन्तच्छदः। णिलोपस्य असिद्धत्वं स्थानिवद्भावो वावचनसामर्थ्यादत्र न भवतीति ह्रस्वभाविनी उपधा भवति। अद्व्युपसर्गस्य इति किम्? समुपच्छादः। अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम्। समुपातिच्छादः। उत्तरा हि सङ्ख्या पूर्वसङ्ख्याकृतं व्यपदेशम् निवर्तयति, नहि त्रिपुत्रो द्विपुत्रः इति व्यपदिश्यते।
index: 6.4.96 sutra: छादेर्घेऽद्व्युपसर्गस्य
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । आकुर्वन्त्यस्मिन् आकरः ॥
index: 6.4.96 sutra: छादेर्घेऽद्व्युपसर्गस्य
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥
index: 6.4.96 sutra: छादेर्घेऽद्व्युपसर्गस्य
उरश्च्छद इति । च्छद आवरणे, चुरादिणिच्, पुंसि संज्ञायाम् इति करणे घः, कर्मणि षष्ठ।ल समासः । ननु चात्र घे परतो ण्यन्तमङ्गं तस्योपधादकारः, न च सं ह्रस्वभाविनी । न च शख्यं वक्तुम् - णिलोपे कृते एआकारो ह्रस्वभाविन्युपधेति णिलोपस्य असिद्धवदत्रा भात् तैत्यसिद्धत्वाद् अचः परस्मिन् इति स्थानिवद्भावाच्च । अत आह - णिलोपस्य चेति । अपर आह - णाविति वर्तते, धे परतो यो णिस्तत्र यदङ्गं तस्योपधाया ह्रस्वः । छादेः इति चेका निर्द्देशः, न णिचा इति । ननु यत्र त्रिप्रभृतयः सन्ति, द्वावपि तत्र स्तः, ततश्च अद्व्युपसर्गस्य इत्येव सिद्धम्, किं सूत्रशिक्षया अत आह - उतरा हीति । एतदेव लोकव्यवहारेथण द्रढयति - न हीति । इस्मन्त्रन्विवषु च ॥ आर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिः इतीसिप्रत्ययः । मनिन् सर्वधातुभ्यः । ष्ट्रन् सर्वधातुभ्यः । योगविभागाद् द्विप्रभृत्युपसर्गादपि भवति - समुपच्छदिः ॥